________________ 574 दक्षिणात्यपाठानुसारि [चतुर्थो अनसूया-सहि ! कहं एदं ? ! [ सखि ! कथमेतत् ?] / प्रियंवदा--सुणाहि / दाणिं सुहसइदपुच्छिआ सउन्दलासआसं गदह्मि.। तदो जाव एणं लज्जादणदमुहिं परिस्सिजिअ तादकस्सवेण एवं अहिणन्दिद,'दिटिआ धूमाउलिदिट्टिणो वि जमाणस्स पाअए एव्व आहुदी पडिदा / वच्छे ! सुसिस्सपरिदिण्णा विज्जा विअ असोअणिज्जा संवुत्ता / अज्ज एव्वं इसिरक्खिदं तुम भत्तणो सआसं विवज्जेमि' त्ति / शृणु / इदानीं सुखशायतपृच्छिका शकुन्तलासकाशं गताऽस्मि / ततो यावदेनां लज्जावनतमुखी परिष्वज्य तात काश्यपेनैवमभिनन्दितम् -'दिष्टया धमाकुलितदृष्टेरपि यजमानस्य पावक एवाऽऽहुति: पतिता / वत्से ! सुशिष्यपरिदत्ता विद्येवाऽशोचनीया सवृत्ता / अद्यैव ऋषिरक्षितां त्वां भत्तुः सकाशं विसर्जयामीति]। अनसूया-अह' केण सूइदो तादकस्सवस्स वुत्तन्तो ? / [ अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः 1] / प्रियंवदा-अग्गिसरणं पविहस्स सरीरं विणा छन्दोमईए वाणिआए। [अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या / / ( संस्कृतमाश्रित्य-) दुष्यन्तेनाऽऽहितं तेजो दधानां भूतये भुवः / अवेहि तनयां ब्रह्मन्नग्निगर्भा शमीमिव // 4 // _अनसूया-(प्रियंवदामाश्लिष्य- ) सहि / पिअं मे / किंदु अज्ज एव्व सउन्दला णीअदित्ति उक्कण्ठासाधारणं परिदोसं अणुहोमि। [ सखि ! प्रियं मे / किंवद्यैव शकुन्तला नीयत ईत्युत्कण्ठासाधारणं परितोषमनुभवामि] प्रियंवदा--सहि ! वअं दाव उक्कण्ठं विणोदइस्सामी। सा तवस्सिणी णिन्वुदा होदु / / सखि ! आवां तावदुत्कण्ठां विनोदयिष्यावः / सा तपस्विनी निवृता भवतु] / अनसूया-तेण हि एदस्सिं चूदसाहावलम्बिदे णारिएरसमुंग्गए एतणिमित्तं एव्व कालान्तरक्खमा णिक्खित्ता मए केसरमालिआ। ता इमं 1 'सुखशयन' / 2 'कण्णेन' / [ कण्वेन ] /