________________ ऽङ्कः] अभिज्ञानशाकुन्तलम् 573 - इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि // 3 // (प्रविश्याऽपटीक्षेपेण-) अनसूया-जइ वि णाम विसअपरम्मुहस्स बि जणस्स एवं ण विदिअं तह वि तेण रण्णा सउन्दलाए अणज्ज आअरिदं / [ यद्यपि नाम विषयपर'ङ्मुखस्याऽपि जनस्यैतन्न विदितं, तथापि तेन राज्ञा शकुन्तलायामनार्यमाचरितम् / शिष्यः-यावदुपस्थितां होमवेलां गुरवे निवेदयामि / (- इति निष्क्रान्तः ) / अनसूया-पडिबुद्धा वि किं करिस्सं.? / णमे उइदेसु वि णिअकरणिजेसु हत्थपाआ पसरन्ति / कामो दाणिं सकामो होदु / जेण असच्चसंधे जणे सुण्णहिअआ सही पदं कारिदा / अहवा-दुब्वाससो कोवो एसो विआरेदि / अण्णहा कहं सो राएसी तारिसाणि मन्तिअ एत्तिअस्स कालस्स लेहमत्तं पि ण विसज्जेदि / ता इदो अहिण्णाणं अङ्गुलीअअं से विसज्जेम / दुक्खसील तवस्सिजणे को अब्भस्थीअदु ? / णं सहीगामी दोसो तिब्बवसिदा वि ण पारेमि पवासपडिणिउत्तस्स तादकस्सवस्स दुस्सन्तपरिणीदं आबण्णसत्तं सउन्दलं णिवेदिदं / इत्थंगए अमेहि किं करणिज्जं?। [प्रतिबुद्धाऽपि किं करिष्ये / न मे उचितेष्वपि निजकार्येषु हस्तपादं प्रसरति / काम इदानीं सकामो भवतु / येनाऽसत्यसन्धे जने शून्यहृदया सखी पदं कारिता / अथवा दुर्वाससः कोप एष विकारयति / अन्यथा कथं स राजर्षिस्तादृशानि मन्त्रयित्वैतावत्कालस्य लेखमात्रमपि न विसृजति ? / तदितोऽभिज्ञानमङ्गुलीयकं तस्य विसृजावः 1 / दुःखशीले तपस्विजने कोऽभ्यर्थ्यताम् ? / ननु 'सखीगामी दोष' इति व्यवसिताऽपि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्त्वां शकुन्तलां निवेदयितुम् / इत्थङ्गतऽस्माभिः कि करणीयम् ? ] / . (प्रनिश्य-) प्रियंवदा-(सहर्षम्-) सहि ! तुवर सउन्दलाए पत्थाणकोदुअं . णिन्वत्तिहुँ / [ सखि ! त्वरस्व शकुन्तलायाः प्रस्थानकातुकं निवर्तयितुम् ] | 1 'अणण्णहिअआ'। [ अनन्यहृदया ] / 2 कण्णस्स / [ कण्वस्य ] /