________________ 572 दाक्षिणात्यपाठानुसार [चतुर्थोप्रियंवदा-सहि ! एंहि / देवकजं दाव णित्तेह्य। [ सखि ! एहि / देवकार्य तावन्निवर्तयावः ] / (-इति परिक्रामतः)। प्रिवयंदा-( विलोक्य-) अणसूए ! पेक्ख दाव / वामहत्थोबहिदवअणा आलिहिदा विअ पिअसही / भत्तुगदाए चिन्ताए अत्ताणं पि ण एसा विभावेदि, किं उण आअन्तुअं ? / [अनसूये ! पश्य तावत् / वामहस्तोपहितवदनाऽऽलिखितेव प्रियसखी / भर्तृगतया चिन्तयाऽऽत्मानमपि नैषा विभावयति, किं पुनरागन्तुकम् ? / अनसूया-पिवदे ! दुवेणं एव्वाणं णो मुहे एसो वुत्तन्तो चिट्ठदुः / रक्खिदव्वा वखु पकिदिपेलवा पिअसही। [प्रियंवदे ! द्वयोरेव ननु नौ मुख एष वृत्तान्तस्तिष्ठतु / रक्षितव्या खलु प्रकृति पेलवा प्रियसखी / प्रियंवदा-को णाम उलोदएण णोमालिअं सिञ्चेदि 1 / [को नामोष्णोदकेन नवमालिकां सिञ्चति ?] , (--इत्युभे निष्क्रान्ते ) / विष्कम्भकः। (ततः प्रविशति सुप्तोत्थितः शिष्यः)। शिष्यः-वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता . प्रवासादुपावृत्तेन काश्यपेन / प्रकाशं निर्गतस्तावदवलोकयामि-'कियदवशिष्टं रजन्या' इति / (परिक्रम्याऽवलोक्य च-) हन्त ! प्रभातम् ! / तथा हि- . यात्येकतोऽस्तशिखरं पतिरोषधीना माविष्कृतोऽरुणपुरःसर एकतोऽर्कः / तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां, लोको नियम्यतइवाऽऽत्मदशान्तरेषु॥२॥ अपि च-- अन्तहिते शशिनि सैव कुमुदती मे दृष्टिं न नन्दर्यात संस्मरणीयशोभा। 1 विष्कम्भः' / 2 'कण्वेन'।