________________ अभिज्ञानशाकुन्तलम् 571 [गच्छ / . पादयोः प्रणम्य निवर्तयैनं, यावदहमर्धोदकमुपकल्पयामि ] / प्रियंवदा-तह / (-इति निष्क्रान्ता)। - [ तथा]। अनसूया-(पादान्तरे स्खलितं निरूप्य-)। अव्वो ! आवेअक्खलिदाए गइए पन्भर्टे मे अग्गहत्थादो पुष्फभाअणं / (-इति पुष्पोच्चयं रूपयति ) / (प्रविश्य-प्रियंवदा) / प्रियंवदा-सहि ! पकिदिवको सो कस्स अणुण पडिगेदि ? / किं वि उण साणुक्कोसो किदो! [ सखि ! प्रकृतिवक्रः स कस्याऽनुनयं प्रतिगृह्णाति 1 / किमपि पुनः सानुक्रोशः कृतः] / अनसूया-( सस्मितम् -) तस्सि बहु एवं पि / कहेहि / [तस्मिन्बहेतदपि / कथय ] प्रियंवदा-जदा णिवत्तिहुँ ण इच्छदि तदा विण्णविदो मए-'भअवं पढम त्ति पेक्खिअ अविण्णादतबप्पहावस्स दुहिदुजणस्स भअबदा एको अबराहो मरिसिदश्वोत्ति / [यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया,-'भगवन् ! प्रथम इति प्रेक्ष्याऽविज्ञाततपःप्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो मर्षितव्य' इति ] / अनसूया-तदो तदो ? / [ ततस्ततः ? j प्रियंवदा-तदो 'मे वअणं अण्णहाभवितुं णारिहदि / किंदु अहिण्णाणाभरणदंसणेण साबो णिवत्तिस्सदि' त्ति मन्तअन्तो सो अन्तरिहिदो। ततो-'मे वचनमन्यथाभवितुं नार्हति / किंत्वभिज्ञानाऽऽभरणदर्शनेन शापो निवतिष्यते'- इति मन्त्रयन्स्वयमन्तर्हितः / अनसूया-सक्कं दाणिं अस्ससिढुं / अत्थि तेण राएसिणा संपत्थिदेण सणामहेअङ्किअं अङ्गुलीअअं. सुमरणीअंत्ति स पिणद्धं / तस्सि साहीणोबाआ सउन्दला भविस्सदि। शक्यमिदानीमाश्वासयितुम् / अस्ति तेन राजर्षिणा संप्रस्थितेन स्वनामधेयाऽङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं पिनद्धम् / तस्मिन्स्वाधीनोपाया शकुन्तला भविष्यति /