________________ 570 दाक्षिणात्यपाठानुसारि- [चतुर्थोप्रियंवदा-जुजदि [ युज्यते / (-इति तदेव कर्माऽऽरभेते ) / . (नेपथ्ये--) 'अयमहं भोः। अनसूया-( कर्णं दत्वा-) सहि ! अदिधीणं विअ णिवेदिदं। [ सखि ! अतिथीनामिव निवेदितम् ] / प्रियंवदा- उडजसंणिहिदा सउन्दला। (आत्मगतम्-) अज उण हिभएण असंणिहिदा। [ ननूट जसंनिहिता शकुन्तला / अद्य पुनर्हृदयेनाऽसंनिहिता] / अनसूया-होदु / अलं एत्तिएहि कुसुमेहिं / [ भवतु / अलमेतावद्भिः कुसुमैः / (- इति प्रस्थिते ) / . (नेपथ्ये-) 'आः ! अतिथिपरिभाविनि ! . विचिन्तयन्ती यमनन्यमानसा, , . तपोधनं वेत्सि न मामुपस्थितम् / स्मरिष्यति त्वां न स बोधितोऽपि सन् , कथां प्रमत्तः प्रथमं कृतामिव' // 1 // प्रियंवदा-हद्धी / अप्पि एव्व संवुत्तं / कस्सि पि पूआरहे भवरद्धा सुण्णहिअआ सउन्दला!। ( पुरोऽवलोक्य- ) ण हु जस्सि कस्सि पि। एसो दुब्बासो सुलहकोबो महेसी / तह सविअ वेअबलुफुल्लाए दुव्वाराए गईए पडिणिवुत्तो / को अण्णो हुदवहादो दहिदुं पहवदि ? / [हा धिक / अप्रियमेव संवृत्तम् / कस्मिन्नपि पूजाहेऽपराद्धा शून्यहृदया शकुन्तला / न खलु यस्मिन्कस्मिन्नपि / एष दुर्वामाः सुलभकोपो महर्षिः। तथा शप्त्वा वेगबलोत्फुल्लया दुरिया गत्या प्रतिनिवृत्तः। कोऽन्यो हुतवहादग्धं प्रभवति ?] / अनसूया--गच्छ। पादेसु पणमिअ णिवत्तेहि णं / जाव अहं अग्बोदरं उबकप्पेमि।