________________ अभिज्ञानशाकुन्तलम् 569 . .. अथ चतुर्थोऽङ्कः।। (ततः प्रविशतः कुसुमावचयं नाटयन्यौ सख्यौ ) / अनसूया-पिअंवदे ! जइ वि गन्धब्वेण विहिणा णिव्वुत्तकल्लणा सउन्दला अनुस्वभत्तगामिणी संवुत्तेति निन्दं मे हिअअं, तह वि एत्ति चिम्तणिज्ज / [प्रियंवदे ! यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा शकुन्तलाऽनुरूपभर्तृगामिनी संवृत्तेति निवृतं मे हृदयम् , तथाप्येतावचिन्तनीयम् ] | प्रियंवदा-कहं विअ ? / [ कथमिव 1] / अनसूया-भज्ज सो राएसी इडिं परिसमाविअ इसीहिं विसज्जिओ अत्तणो णअरं पविसिअ अन्तेउरसमागदो इदोगदं वुत्तन्तं सुमरदिवा, ण वेत्ति / [ अद्य स राजर्षिरिष्टिं परिसमाप्य ऋषिभिविसर्जित आत्मनो नगरं प्रविश्याऽन्तःपुरसमागत इतोगतं वृत्तान्तं स्मरति वा, न वेति 1] / प्रियंवदा-वीसद्धा होहि / ण तादिसा आकिदिविसेसा गुणविरोहिणो होन्ति / तादो दाणिं इमं वुत्तन्तं सुणिअ ण आणे किं पडिवज्जिस्सदि ति / / [विस्रब्धा भव / न तादृशा आकृतिविशेषा गुणविरोधिनी भवन्ति / तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यते इति / अनसूया-जह अहं देक्खामि, तह तस्स अणुमदं भवे / [ यथाहं पश्यामि तथा तस्याऽनुमतं भवेत् ] / प्रियंवदा कह विअ ? / . [कथमिव 1] / अनसूया-गुणवदे कण्णा पडिबादणिज्जे त्ति अअं दाव पढमो संकप्पो / तं जइ देव्वं एव्व संपादेदि, णं अप्पासेण किदत्थो गुरुअणो। ['गुणवते कन्यका प्रतिपादनीयेत्ययं तावत्प्रथमः संकल्पः / तं यदि दैवमेव संपादयति, नन्वप्रयासेन कृतार्थो गुरुजनः] / प्रियंवदा-(पुष्पभाजनं विलोक्य- ) सहि ! अघइदाई बलिकम्मपज्जताई कुसुमाई। [ सखि ! अवचितानि बलिकर्मपर्याप्तानि कुमुमानि ] | अनसूया-णं सहीए सउम्दलाए सोहग्गदेवआ अचणीआ। . [ ननु सख्याः शकुन्तलायाः सौभाग्यदेवताऽर्चनीया ] /