________________ 566 दाक्षिणात्यपाठानुसारि- [तृतीयोउभे-णिन्वुद म्ह / [ निवृते स्वः] / प्रियंवदा-( सदृष्टिक्षेपम्- ) अणसूए ! जह एसो इदो दिण्णदिट्ठी उत्सुओ मिअपोदओ मादरं अण्णीसदि / एहि / संजोएम णं। (- इत्युभे प्रस्थिते ) / [ अनसूये ! यथैष इतो दत्तदृष्टिरुत्सुको मृगपोतको मातरमन्विष्यति / एहि / संयोजयाव एनम् / शकुन्तला- हला ! असरण सि / अण्णदरा वो आअच्छदुः / [हला ! अशरणाऽस्मि / अन्यतरा युवयोरागच्छतु ] / उभे--पुहवीए जो शरणं सो तुहं समीचे वट्टइ / (-इति निष्क्रान्ते ) / [पृथिव्या यः शरणं स तव समीपे वर्त्तते ] / , शकुन्तला-कहं गदाओ एव ? / [ कथं गते एव ?] / . राजा-अलमागेन / नन्वयमाराधयिता जनस्तव समीपे वर्चते। किं शीतलैः क्लमविनोदिभिराद्रवानान् ___ संचारयामि नलिनीदलतालेवृन्तै: ? / अङ्के निधाय करभोरु ! यथासुखं ते .. ___संवाहयामि चरणावुत पद्मताम्रौ ? // 18 // शकुन्तला- माणणीएसु अत्ताणं अवगहाइस् / (-इत्युत्थाय गन्तुमिच्छति)। [न माननीयेष्वात्मानमपराधयिष्ये / राजा-सुन्दरि ! अनिर्वाणो दिवसः / इयं च ते शरीरावस्था / उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम / कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः ? // 19 // (-इति बलादेनां निवर्तयति ) / शकुन्तला-पोरव ! रक्ख अविणअं। मअणसंतत्तावि ण हु अत्तणो पहवामि / [ पौरव ! रक्षाऽविनयम् / मदनसन्तप्ताऽपि न खल्वात्मनः प्रभवामि / 1 'वृन्तम् /