________________ 565 s:] - अभिज्ञानशाकुन्तलम् / राजा-भद्रे ! नैतत्परिहार्यम् / विवक्षित ह्यनुक्तमनुतापं जनयति / प्रियंवदा-आवण्णस्स विसअणिवासिणो नणस्स भत्तिहरेण रण्णा होदव्वं त्ति एसो-वो धम्मो। [ आपन्नस्य विषयनिवासिनो जनस्याऽऽतिहरेण राज्ञा भवितव्यमित्येष युष्माकं धर्मः]। राजा-नाऽस्मात्परम् / - प्रियंवदा-तेण हि इअंणो पिअसही तुमं उद्दिसिम इमं अवत्थन्तरं भअवता मअणेण आरोविदा / ता अरुहसि अब्भुववत्तीए जीविदं से अवलम्बिहूँ / [तेन हीयमावयोः प्रियसखी त्वामुद्दिश्येदमवस्थान्तरं भगवता मदनेनाऽऽरोपिता / तदहस्यभ्युपपत्त्या जं वितं तस्या अवलम्बितुम् / राजा-भद्रे ! साधारणोऽयं प्रणयः / सर्वथाऽनुगृहीतोऽस्मि / शकुन्तला-( प्रियंवदामवलोक्य-) हला ! किं अन्तेउरविरहपज्जुस्सुअस्स राएसिणो उवरोहेण ? | [हला ! किमन्तःपुरविरहपर्युत्सुकस्य राजर्षेरुपरोधेन ?] / राजाइदमनन्यपरायणमन्यथा हृदयसंमिहिते ! हृदयं मम / यदि समर्थयसे मदिरेक्षणे! मदनबाणहतोऽस्मि हतः पुनः // 16 // अनसूया-वअस्स ! बहुवल्लहा राआणो सुणीअन्ति / जह' णो पिअसही बन्धुअणसोअणिजा ण होइ तह णिवत्तेहि। [ वयस्य ! बहुवल्लभा राजानः श्रूयन्ते / यथा नौ प्रियसखी बन्धुजनशोचनीया न भवति तथा निर्वर्त्तय ] / राजा-भद्रे ! किंबहुना.. परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे। समुद्रवसना चोर्वी, सखी च युवयोरियम् // 17 // १'हतोऽपि पा०।