________________ 564 दाक्षिणात्यपाठानुसारि- [तृतीयो . [हला ! चिन्तितं मया गीतिवस्तु / न खलु सन्निहितानि पुनर्लेखनसाधनानि ] | प्रियंवदा-इमस्सि सुओदरसुउमारे गलिणीपत्ते णहेहि णिक्खित्तवण्णं करेहि / [ एतस्मिञ्छु कोदरसुकुमारे नलिनीपत्रे नखैनिक्षिप्तवर्ण कुरु / शकुन्तला-( यथोक्तं रूपयित्वा-) हला ! सुणुह दाणि सदस्थ, ग वेत्ति 1 / [हला ! शृणुतमिदानी सङ्गतार्थे न वेति ?] / उभे-अवहिद / [ अवहिते स्वः ] / (शकुन्तला-वाचयति ) / तुज्झ ण आणे हिअअं, मम उण कामो दिवावि रत्तिम्मि / णिग्घण ! तवइ बलीअं, तुर वुत्तमणोरहाई अङ्गाई // 13 // [ तव न जाने हृदयं, मम पुनः कामो दिवापि, रात्रीवपि / निघृण ! तपति बलीयस्त्वयि वृत्तमनोरथान्यङ्गानि ] // राजा-( सहसोपसृत्य-) तपति तनुगात्रि! मदनस्त्वामनिशं, मां पुनर्दहत्येव / ग्लपयति यथा शशाङ्क, न तथा हि कुमुदती दिवसः / / 14 / / सख्यौ-( सहर्षम्--) साभदं अविलम्बिणो मणोरहस्स / [ स्वागतमविलम्बिनो मनोरथस्य ] / (शकुन्तला--अभ्युत्थातुमिच्छति)। राजा-अलमलमायासेन / संदष्टकुसुमशयनान्याशु-क्लान्तबिसभङ्गसुरभीणि / गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति // 15 // अनसूया-इदो सिलातलेक्कदेसं अलङ्करेदु वअस्सो। [ इतः शिलातलैकदेशमलङ्करोतु वयस्यः] / ( राजा-उपविशति / शकुन्तला-सलजा तिष्ठति ) / प्रियंवदा-दुवेणं णु वो अण्णोण्णाणुराओ पचक्खो। सहीसिणेहो में पुणरुत्तवादिणि करेदि / [ द्वयोर्ननु युवयोरन्योन्यानुरागः प्रत्यक्षः। सखीस्नेहो मां पुनरुक्तवादिनी करोति / 1 'रात्रिमपि।