________________ अभिज्ञानशाकुन्तलम् 563 प्रियंवदा-(विचिन्त्य-) हला! मअणलेहो से करीअदु / इमं देवप्पसादस्सावदेसेण सुमणोगोविदं करिअ से हत्थअं पावइस्सं / [हला ! मदनलेखोऽस्य क्रियताम् / इमं देवप्रसादस्याऽपदेशेन सुमनोगोपितं कृत्वा तस्य हस्तं प्रापयिष्यामि / अनसूया - रोअइ मे सुउमारो पओओ। किं वा सउन्दला भणादि ? / [ रोचते मे सुकुमारः प्रयोगः / किं वा शकुन्तला भणति ? ] / शकुन्तला-को णिओओ विकप्पीअदि ? / [ को नियोगी विकल्प्यते 1] / प्रियंवदा-तेण हि अत्तणो उवण्णासपुव्वं चिन्तेहि दाव ललिअपदबन्धणं / [तेन ह्यात्मन उपन्यासपूर्व चिन्तय तावल्ललितपदबन्धनम् / शकुन्तला-हला ! चिन्तेमि अहं / अवहीरणाभीरुअं पुणो वेवइ मे हिअ। [हला ! चिन्तयाम्यहम् / अवधारणाभारु पुनर्वेपते मे हृदयम् ] / राजा-( सहर्षम्-) अयं स ते तिष्ठति सङ्गमोत्सुको, विशङ्कसे भीरु ! यतोऽवधीरणाम् / लभेत वा प्रार्थीयता, न वा श्रियं, श्रिया दुरापः कथमीप्सितो भवेत् ? // 11 // सख्यौ–अत्तगुणावमाणिणि ! को दाणिं सरीरणिव्वावत्तिअं सारदिलं जोसिणिं पडन्तेण वारेदि / [आत्मगुणावमानिनि ! क इदानीं शरीरनिर्वापयित्रीं शारदी ज्योत्स्नां पटान्तेन वारयति ?] / शकुन्तला-( सस्मितम्- ) णिओइआ दाणिं हि / (-इत्युपविष्टा चिन्तयति ) / [नियोजितेदानीमस्मि / राजा-स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि / यतः___ उन्नमितैकभ्रलतमाननमस्या: पदानि रचयन्त्याः / ... कण्टकितेन प्रथयति मय्यनुरागं कपोलेन // 12 // शकुन्तला–हला ! चिन्तिदं मए गीदिवत्थु / ण क्खु सण्णिहिदाणि उण लेहणसाहणाणि /