________________ ऽङ्कः] 36 अभिज्ञानशाकुन्तलम् - राजा-अवितश्रमाह प्रियंवदा / तथा हि क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं, * मध्यः क्लान्ततरः, प्रकामविनतावंसौ, छविः पाण्डुरा। . शोच्या च, प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते, पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी // 7 // शकुन्तला-सहि ! कस्स वा अण्णस्स कहइस्सं ? / आआसइसिआ दाणिं वो भविस्सं / [संख्यौ ! कंस्य वान्यस्य कथयिष्यामि / आयामयित्रीदानी वां भविष्यामि। उभे-अदो एव्व क्खु गिब्बन्धो। सिणिद्धजणसंविभत्तं हि दुक्खं सज्मवेदणं होदि / [अत एव खलु निर्बन्धः / स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति / राजापृष्टा जनेन समदुःखसुखेन बाला, नेयं न वक्ष्यति मनोगतमाधिहेतुम् / दृष्टो विवृत्य बहुशोऽप्यनया सतृष्ण मत्रान्तरे श्रवणकातरतां गतोऽस्मि // 8 // शकुन्तला-सहि ! जदो पहुदि मम दंसगपहं आअदो सो तवोवणरक्खिदा राएसी तदो आरहिअ तग्गदेण अहिलासेण एतदबत्थरि संवुत्ता / सखि ! यतः प्रभृति मम दर्शनपथमार्गतः स तपोवनरक्षिता राजर्षिस्तत आरभ्य तद्गतेनाऽभिलाषेणैतदवस्थाऽस्मि संवृत्ता] / राजा-( सहर्षम् -) श्रुतं श्रोतव्यम् / स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः / दिवस इवाऽभ्रश्यामस्तपाऽत्यये जीवलोकस्य // 9 // शकुन्तला-तं जइ वो अणुमदं, ता तह वह जह तस्स राएसिणो अणुकम्पणिज्जा होमि / अण्णहा अवस्सं सिञ्चध मे तिलोद। [ तद्यदि वामनुमतं, तदा तथा वर्तेथां यथा तस्य राजर्षेरनुकम्पनीया भवामि / अन्यथाऽवश्यं सिञ्चतं मे तिलोदकम् / 1 'सखि !' /