________________ 560 दाक्षिणात्यपाठानुसारि- . [तृतीयोप्रियंवदा-( जनान्तिकम्- ) अणसूए ! तस्स राएसिणो पढमदंसणादो आरहिम पज्जुस्सुआ विअ सउन्दला / किंणु क्खु से तणिमित्तो असं आतङ्को भवे ? / [अनसूये ! तस्य राजर्षेः प्रथमदर्शनादारभ्य पर्युत्सुकेव शकुन्तला / किं नु खलु तस्यास्तन्निमित्तोऽयमातङ्को भवेत् 1] / अनसूया-सहि ! मम वि ईदिसी आसङ्का हिअअस्स / होदु / पच्छिस्सं दाव णं / ( प्रकाशम् -) सहि ! पच्छदव्वासि किंपि / बलवं खु दे संदावो। [सखि ! ममापीदृश्याशङ्का हृदयस्य / भवतु / प्रक्ष्यामि तावदेनाम् / सखि ! प्रष्टव्याऽसि किमपि / बलवान्खलु ते सन्तापः 1] / शकुन्तला-(पूर्वार्द्धन शयनादुत्थाय-) हला किं वक्तकामासि ! / [हला ! किं वक्तुकामाऽसि ?] / अनसूया-हला सउन्दले ! अणब्भन्तरा खु अझे मदणगदस्स वुत्तन्तस्स / किंदु जादिसी इदिहासणिबन्धेसु कामअमाणाणं अवत्था सुणीभदि तादिसी दे पेक्खामि / कहेहि किणिमित्तं दे संदावो ? / विआरं क्खु परमत्यदो अजाणिअ अणारम्भो पडिआरस्स / [हला शकुन्तले ! अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य / किंतु यादृशीतिहासनिबन्धेषु कामयमानानामवस्था श्रूयते, तादृशीं तव पश्यामि / कथय किंनिमित्तं ते संतापः 1 / विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य ] / राजा-अनसूयामप्यनुगतो मदीयस्तर्कः / नहि स्वाभिप्रायेण मे दर्शनम् / शकुन्तला-( आत्मगतम्-) बलवं क्खु मे अहिणिवेसो। दाणिं वि सहसा एदाणं ण सक्कणोमि णिवेदिदं / [बलवान् खलु मेऽभिनिवेशः / इदानीमपि सहसैतयोर्न शक्नोमि निवेदयितुम् ] / प्रियंवदा-सहि सउन्दले ! सुटु एसा भणादि / किं अत्तणो आतङ्क उवेक्खसि ? / अणुदिअहं क्खु परिहीअसि अङ्गेहिं / केवलं लावण्णमई छाआ तुम ण मुञ्चदि। . . [ सखि शकुन्तले ! सुष्ठु एषा भणति / किमात्मभ आतङ्कमुपेक्षसे ? / अनुदिवसं खलु परिहीयसेऽङ्गैः / केवलं लावण्यमयी छाया त्वां न मुञ्चति ] /