________________ ऽङ्कः] . अभिज्ञानशाकुन्तलम् राजा-इतस्तपस्विकार्यम् , इतो गुरुजनाज्ञा / द्वयमप्यनतिक्रमणीयम् / किमत्र प्रतिविधेयम् ? / विदूषकः-तिसङ्घ विअ अन्तराले चिट्ठ / त्रिशङ्कुरिवान्तराले तिष्ठ ] / राजा-सत्यमाकुलीभूतोऽस्मि / कृत्ययोभिन्न देशत्वाद् द्वैधीभवति मे मनः पुरः प्रतिहतं शैले स्रोतः स्रोतोवहो यथा // 17 // ( विचिन्त्य- ) सखे ! त्वमम्बया पुत्र इति प्रतिगृहीतः। अतो भवानितः प्रतिनिवृत्त्य तपस्विकाव्यग्रमानसं मामावेद्य तत्रभवतीनां पुत्रकृत्यमनुष्टातुमर्हति / विदूषकः-ण क्खु मं रक्खभीरु गणेसि ! / [ न खलु मां रक्षोभीरुकं गणयसि ! ] / राजा-( सस्मितम्-) कथमेतद्भवति संभाव्यते ! / विदूषकः-जह राआणुएण गन्तव्वं तह गच्छामि / [ यथा राजाऽनुजेन गन्तव्यं, तथा गच्छामि ] / राजा-'ननु तपोवनोपरोधः परिहरणीय' इति सर्वानानुयात्रिकांस्त्वयैव सह प्रस्थापयामि / विदूषकः-तेण हि जुवराओ झि दाणिं संवुत्तो।। [तेन हि युवराजोऽस्मीदानी संवृत्तः] / राजा-(स्वगतम्-) चपलोऽयं वटुः / कदाचिदस्मत्प्रार्थनामन्तःपुरेभ्यः कथयेत् / भवतु। एनमेवं वक्ष्ये / ( विदूषक हस्ते गृहीत्वा, प्रकाशम्-) वयस्य ! ऋषिगौरवादाश्रमं गच्छामि / न खलु सत्यमेव तापसकन्यकायां ममाऽभिलाषः / पश्य क वयं, क परोक्षमन्मथो मृगशावैः सममेधितो जनः। परिहासविल्पितं सखे ! परमार्थन न गृह्यतां वचः / / 18 // विदूषकः-अथ किम् / [ अथ किम् / (इति निष्क्रान्ताः सर्व)। .. इति द्वितीयोऽङ्कः / 1 'शैलैः स्रोतः स्रोतोवहां यथा / 2 'गणय' / 3 क्वचिन्न /