________________ 556 दाक्षिणात्यपाठानुसारि- [द्वितीयोअनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि / आपन्नाऽभयसन्त्रेषु दीक्षिताः खलु पौरवाः // 16 // उभौ-( सप्रणामम् - ) गच्छतं पुरो भवन्तौ / अहमध्यनुपदमागत एव / उभौ-विजयस्व / (-इति निष्क्रान्तौ ) / राजा-माढव्य ! अप्यस्ति शकुन्तलादर्शने कुतूहलम् ? / विदूषकः-पढमं सपरीवाहं आसि, दाणं रक्खसवुत्तन्तेण विन्दूवि णावसेसिदो। [प्रथम सपरीवाहमासीत् / इदानीं राक्षसवृत्तान्तेन बिन्दुरपि नावशेषितः ] / राजा-मा भैषीः / ननु मत्समीपे वर्तिष्यसे / विदूषकः-एष रक्खसादो रक्खिदो सि। ' [एष राक्षसाद्रक्षितोऽस्मि / (प्रविश्य-) दौवारिकः-सज्जो रधो भट्टिणो विजअप्पत्थाणं अवेक्खदि / एस उण णभरादो देवीणं आणत्तिहरो करभओ आअदो। ' [ सज्जो रथो भर्तुर्विजयपस्थानमपेक्षते / एष पुनर्नगराद्देवीनामाज्ञप्तिहरः करभक आगतः]। . राजा-(सादरम्-)। किमम्बाभिः प्रेषितः ? / . दौवारिकः-अह इं। [ अथ किम् ] / राजा-ननु प्रवेश्यताम् / दौवारिकः-तह / (-इति निष्क्रम्य, करभकेण सह प्रविश्य-) एसो भट्टा / उवसप्प / [ तथा / एष भर्ता / उपसर्प] / करभकः-जेदु भट्टा। देवी आणवेदि आआमिणि चउत्थदिअहे पउत्तपारणो मे उववासो भविस्सदि / तहिं दीहाउणा अवस्सं संभाविदव्वा त्ति / [ जयतु भर्ता / देव्याज्ञापयति--आगामिनि चतुर्थदिवसे प्रवृत्तेपारणो मे उपवासो भविष्यति / तत्र दीर्घायुषाऽवश्यं संभावितव्येति ] 1. 1 'पुत्रपारणो' /