________________ 554 दाक्षिणात्यपाठानुसारि- द्वितीयो असीद्विवृत्तवदना च विमोचयन्ती, शाखासु वल्कलमसक्तमपि द्रुमाणाम् // 12 // विदूषकः-तेण हि गहीदपाहेओ होहि / किदं तुए उववणं तवोवणं ति पेक्खामि / [ तेन हि गृहीतपाथेयो भव / कृतं त्वयोपवनं तपोवनमिति पश्यामि]। राजा-सखे ! तपस्विभिः कैश्चित्परिज्ञातोऽस्मि / चिन्तय तावत्केनाऽपदेशेन सकृदप्याश्रमे वसामः। विदूषकः-को अवरो अवदेसो तुह रण्णाणं / णीवारच्छट्ठभामं अह्माणं उवहरन्तु त्ति। [ कोऽपरोऽपदेशस्तव राज्ञः / नीवारषष्ठभागमस्माकमुप्रहरन्त्विति / राजा-मूर्ख ! अन्यद्भागधेयमेतेषां रक्षणे निपतति, यद्रत्नराशीनपि विहायाऽभिनन्द्यम् / पश्य यदुत्तिष्ठति वर्णभ्यो नृपाणां, क्षयि तत्फलम् / तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः // 13 // (नेपथ्ये-) हन्त ! सिद्धार्थी स्वः। राजा-( कर्ण दत्त्वा-) अये ! धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् / (प्रविश्य-) . दौवारिकः-जेदु भट्टा / एदे दुवे इसिकुमारआ पडिहारभूमि उवट्टिदा। [ जयतु भर्ता / एतौ द्वो ऋषिकुमारौ प्रतीहारभूमिमुपस्थितौ ] / राजा-तेन ह्यविलम्बितं प्रवेशय तौ। दौवारकि:-एसो पवेसेमि / (- इति निष्क्रम्य, ऋषिकुमाराभ्यां सह विश्य-) इदो इदो भवन्तौ ! / [एष प्रवेशयामि / इत इतो भवन्तौ] / (उभौ-राजानं विलोकयतः ) / ' प्रथमः-अहो ! दीप्तिमतोऽपि विश्वसनीयताऽस्य वपुषः / अथवोपंपचमेतदृषिभ्यो नाऽतिभिन्ने राजनि / कुतः ? अध्याक्रान्ता वसतिरमुनाऽप्याश्रमे सर्वभोग्ये, रक्षायोगादयमपि तपः प्रत्यहं संचिनोति /