________________ 552 दाक्षिणात्यपाठानुसारि- [द्वितीयो [कृतं भवता निर्मक्षिकम् / साम्प्रतमेतस्यां पादपच्छायायां विरचितलतावितानदर्शनीयायामासने निषीदतु भवान् , यावदहमपि सुखासीनो भवामि ] | राजा-गच्छाऽग्रतः। विदूषकः-एदु भवं / [ एतु भवान् ] / (-इत्युभौ परिक्रम्योपविष्टौ ) / , राजा-माढव्य ! अनवाप्तचक्षुःफलोऽसि, येन त्वया दर्शनीयं न दृष्टम् / विदूषकः-णं भवं अग्गदो मे वदि / [ननु भवानग्रतो मे वर्त्तते / राजा-सर्वः खलुः कान्तमारमानं पश्यति / तामाश्रमललामभूतां शकुन्तलामधिकृत्य ब्रवीमि / विदूषकः-(स्वगतम्- ) होदु / से अवसरं ण दाइस्सं / ( प्रकाशम्-) भो वअस्स ! ते तावसकण्णआ अब्भत्थणीआ दीसदि / [भवतु / अस्यावसरं न दास्ये। भो वयस्य ! ते तापसकन्यकाऽभ्यर्थनीया दृश्यते / राजा-सखे ! न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते / सुरयुवतिसम्भवं किल मुनेरपत्यं तदुज्झिताधिगतम् / अकस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् // 8 // विदूषकः-(विहस्य-)जह कस्स वि पिण्डखज्जूरेहि उव्वेजिदस्स तिन्तिणीए अहिलासो भवे, तह इस्थिआरअणपरिभाविणो भवदो इअं अन्मत्थणा!। [यथा कस्यापि पिण्ड-खर्जू रैरुद्वेजितस्य तिन्तिण्यामभिलाषो भवेत्तथा स्त्रीरत्नपरिभाविनो भवत इयमभ्यर्थना]। राजा-न तावदेनां पश्यसि येनैवमवादीः। विदूषकः-तं क्खु रमणिज्ज जं भवदो वि विह्मअं उप्पादेदि / [ तत्खलु रमणीयं यद्भवताऽपि विस्मयमुत्पादयति ] / राजा-वयस्य ! किंबहुनाचित्रे निवेश्य परिकल्पितसत्त्वयोगा, रूपोच्चयेन मनसा विधिना कृता नु /