________________ 548 दाक्षिणात्यपाठानुसारि- [द्वितीयो ऽऽश्रमपदं प्रविष्टस्य तापसकन्यका शकुन्तला ममाऽधन्यतया दर्शिता / साम्प्रतं नगरगमनस्य मनः कथमपि न करोति / अद्यापि तस्य तामेव चिन्तयतोऽक्ष्णोः प्रभातमासीत् / का गतिः / यावत्तं कृताचारपरिक्रमं पश्यामि / एष बांणासनहस्ताभिर्यवनीभिर्वनपुष्पमालाधारिणीभिः परिवृत इत एवाऽऽगच्छति प्रियवयस्यः / भवतु / अङ्गभङ्गविकल इव भूत्वा स्थास्यामि / यद्येवमपि नाम विश्रमं लभैय] | (ततः प्रविशति यथानिर्दिष्टपरिवारो राजा) राजाकामं प्रिया न सुलभा, मनस्तु तद्भावदर्शनाऽऽयासि। अकृतार्थेऽपि म सजे, तिमुभयप्रार्थना कुरुते // 1 // (सितं कृत्वा-) एवमात्माभिप्रायसंभावितेष्टजनचित्तवृत्तिः प्रार्थयिता विडम्ब्यते / तथाहिस्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेषयन्त्या तया, ___ यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव / 'मा गा' इत्युपरुद्धया यदपि सा साऽसूयमुक्ता सखी, सर्व तत्किल तत्परायणमहो! कामी स्वतां पश्यति // 2 // . विदूषकः-(तथास्थित एद-) भो वअस्स ! ण मे हत्थपाआ पसरन्ति / वाआमेत्तएण जीआवइस्स। [वयस्य ! न मे हस्तपादं प्रसरति / वाङ्मात्रेण जापयिष्यामि ] / राजा-कुतोऽयं गात्रोपघातः / विदूषकः-कुदो किल, सभं अच्छी आउलीकरिम अस्सुकारणं पुच्छेसि ? / [कुतः किल, स्वयमक्ष्याकुलीकृत्याऽश्रुकारणं पृच्छसि ? ] / राजा-न खल्ववगच्छामि। विदूषकः-भो वभस्स! जं वेदसो खुज्जलील विडम्बेदि, तं किं अत्तगो पहावेण, णं गईवेअस्स ! [भो वयस्य ! यद्वेतसः कुब्जलीलां विडम्बयति, तत्किमात्मनः प्रभावेण ?, ननु नदीवेगस्य ?] / 1 'दृष्टा' / 2 'दर्शनाश्वासि' / 3 क्वचिन्न / 4 'बईकरियसि' [ 'जयीक्रियसे 'शापयिष्यामि' ] 5 'उद' / [ उत]|