________________ S:] 35 अभिज्ञानशाकुन्तलम् 545 —तदहमेनामनृणां करोमि / (-इत्यंगुलीरं दातुमिच्छति)। (उभे-नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः ) / राजा-अलमस्मानन्यथा संभाव्य / 'राज्ञः परिग्रहोऽयमिति राजपुरुषं मामवगच्छथ। . प्रियंवदा-तेण हि णारिहदि एदं अङ्गुलीमअं अङ्गुलीविओ। अज्जस्स वभणेण अणिरिणा दाणिं एसा / ( किंचिद्विहस्य-) हला सउन्दले ! मोइदासि अणुअम्पिणा अज्जेण / अहवा-महाराएण / गच्छ दाणिं / तेन हि नाऽहत्येतदङ्गुलीवियोगम् / आर्यस्य वचनेनाऽनृणा इदानीमेपा / हला शकुन्तले ! मोचिताऽस्य नुकम्पिनाऽऽर्येण / अथवा महाराजेन / गच्छेदानीम्। शकुन्तला-( आत्मगतम्-)-'जइ अत्तणो पहविस्सं / (प्रकाशम्-) का तुमं विसज्जिदब्बस्स, रुन्धिदब्बस्स वा ? / [यद्यात्मनः प्रभविष्यामि / का त्वं विसर्जितव्यस्य, रोद्धव्यस्य वा ?] / राजा-(शकुन्तलां विलोक्य, आत्मगतम्- ) किं नु खलु यथा वयमस्यामेवमियमप्यस्मान्प्रति स्यात् ? / अथवा लब्धाऽवकाशा मे प्रार्थना / कुतः ?वाचं न मिश्रति यद्यपि मद्वचोभिः, ___ कणं ददात्यभिमुखं मयि भाषमाणे / कामं न तिष्ठति मदाननसंमुखीना, भूयिष्ठमन्यविषया न तु दृष्टिरस्याः // 27 // (नेपश्ये-) भो भोस्तपस्विनः ! संनिहितास्तपोवनसत्त्वरक्षायै भवत / प्रत्यासन्नः किल मृगयाविहारी पार्थिवो दुष्यन्तः / तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलावल्कलेषु / पतति परिणताऽरुणप्रकाशः शलभसहस्र इवाऽऽश्रमद्रुमेषु // 28 // अपि चतीवाऽऽघातप्रतिहततरुः, स्कन्धलग्नैकदन्तः, पादाकृष्टव्रततिवलयाऽऽसङ्गसंजातपाशः।