________________ 544 दाक्षिणात्यपाठानुसारि- [प्रथमोशकुन्तला-( सरोषमिव-) अणसूए ! गमिस्सं अहं / [अनसूये ! गमिष्याम्यहम् ] अनसूया-किंणिमित्तं ? / [किंनिमित्तम् ? ] / शकुन्तला-इमं असंबद्धप्पलाविणिं पिअंवदं अज्जाए गोदमीए णिवेदइस्सं। [ इमामसंबद्धपलापिनीं प्रियंवदामा-यै गौतम्यै निवेदयिष्यामि। अनसूया-सहि ! ण जुत्तं अकिदसक्कार अदिहिवेसेसं विसज्जिम सच्छन्ददो गमणं / [ सखि ! न युक्तमकृतसत्कारमतिर्थिविशेषं विसृज्य स्वच्छन्दतो गमनम् ] / (शकुन्तला-न किञ्चिदुक्त्वा प्रस्थितैव ) / राजा-आः ! कथं गच्छति ! / (गृहीतुमिच्छन्निगृह्याऽऽत्मानम , आत्मगतम.-) अहो ! चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः / अहं हि अनुयास्यन्मुनितनयां, सहसा विनयेन वारितप्रसरः / स्थानादनुच्चलन्नपि, गत्वेव पुनः प्रतिनिवृत्तः // 25 // प्रियंवदा-(शकुन्तलां निरुध्य-) हला! ण दे जुत्तं गन्तुं / [हला ! न ते युक्तं गन्तुम् ] | . शकुन्तला-( सभ्रूभङ्गमः- ) किं णिमित्तं ? / [किंनिमित्तम् 1] / प्रियंवदा-रुक्खसेअणे दुवे धारेसि मे / एहि जाव / अत्ताणं मोचिभ तदो गमिस्ससि / (-इति बलादेनां निवर्त्तयति ) / [ वृक्षेसेचने द्वे धारयसि मे / एहि तावत् / आत्मानं मोचयित्वा ततो गमिष्यसि / राजा-भद्रे ! वृक्षसेचनादेव परिश्रान्तामत्रभवती लक्षये। तथा यस्याःस्रस्तांऽसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणा दद्यापि स्तनवेपथु जनयति श्वासः प्रमाणाधिकः ! स्रेस्तं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं, ___ बन्धे संसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः॥२६॥ 1 'बद्धं।