________________ . अभिज्ञानशाकुन्तलम् 543 [ततो वसन्तोदारसमये तस्या उन्मादयितृ रूपं प्रेक्ष्य 1-] राजा-परस्ताज्ज्ञायत एव / सर्वथाऽप्सरःसंभवैषा / अनसूया-अह ई। [ अथ किम् ] / राजा-उपपद्यते / मानुषोषु कथं वा स्यादस्य रूपस्य संभवः / न प्रभातरलं ज्योतिरुदति वसुधातलात् // 22 // (शकुन्तला-अधोमुखी तिष्ठति)। राजा-(आत्मगतम्-) लब्धावकाशो में मनोरथः / किंतु सख्याः परिहासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः / प्रियंवदा-( सस्मितं शकुन्तलां विलोक्य, नायिकाभिमुखी भूत्वा-) पुणो वि वक्तुकामो विअ अज्जो ? / [ पुनरपि वक्तुकाम इवाऽऽर्यः ? ] / ( शकुन्तला-सखीमङ्गुल्या. तर्जयति ) / राजा-सम्यगुपलक्षितं भवत्या। अस्ति नः सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम् / प्रियंवदा-अलं विआरिअ / अणिअन्तणाणुओओ तवस्लिअणो णाम / [ अलं विचार्य / अनियन्त्रणाऽनुयोगस्तपस्विजनो नाम / राजा-इति सखीं ते ज्ञातुमिच्छामिवैखानसं किमनया व्रतमाप्रदाना- . . व्यापाररोधि मदनस्य निषेवितव्यम् / अत्यन्तमेव मदिरेक्षणवल्लभाभि - राहो ! निवत्स्यति समं हरिणाङ्गनाभिः ? // 23 // प्रियंवदा- अज! धम्मचरणे वि परवसो अझं जणो। गुरुणो उण से अणुरूववरप्पदाणे सङ्कप्पो / [आर्य ! धर्माचरणेऽपि परवशोऽयं जनः / गुरोः पुनरस्या अनुरूपवरप्रदाने सङ्कल्पः] / * राजा-(आत्मगतम् - ) न दुरवापेयं खलु प्रार्थना / भव हृदय ! साभिलाषं, संप्रति सन्देहनिर्णयो जातः / आशङ्कसे यदग्नि, तदिदं स्पशेक्षम रत्नम् // 24 //