________________ दाक्षिणात्यपाठानुसारि- [प्रथमोशकुन्तला-तुझे अवेध / किं वि हिभए करिअ मन्तेध / ण वो वाणं सुणिस्सं। [युवामपेतम् / किमपि हृदये कृत्वा मन्त्रयेथे / न युवयोर्वचनं श्रोष्यामि / राजा-वयमपि तावद्भवत्योः सखीगतं 'किञ्चित् पृच्छामः। सख्यौ-अज्ज ! अनुग्गहो विअ इ अब्मत्थणा / [आर्य ! अनुग्रह इवेयमभ्यर्थना] / राजा-'भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित' इति प्रकाशः / इयं च वः सखी तदात्मजेति-कथमेतत् ? / / अनसूया-सुणादु अजो। अस्थि को वि कोसिओत्ति गोत्तणामहेओ महाप्पहावो राएसी। शृणोत्वार्यः / अस्ति कोऽपि 'कौशिक' इति गोत्रनामधेयोमहाप्रभावो राजर्षिः]। राजा-अस्ति / श्रूयते / अनसूया-तं णो पिअसहीए पहवं अवगच्छ / उज्झिआए सरीरसंवड्ढणादिहि तादकस्सवो से पिदा / [ तमावयोः प्रियसख्याः प्रभवमवगच्छ / उज्झितायाः शरीरसंवर्धनादिभिस्तातकाश्यपोऽस्याः पिता]। राजा-'उज्झित'शब्देन जनितं मे कौतूहलम् / आ मूलाच्छोतुमिच्छामि। अनसूया-सुणादु अजो। गोदमीतीरे पुरा किल तस्स राएसिणो उग्गे तवसि वट्टमाणस्स किंवि जादसङ्केहिं देवेहिं मेणआ णाम अच्छरा पेसिदा णिअमविग्घकालिणी। [शृणोत्वार्यः / गौतमीतीरे पुरा किल तस्य राजर्षेरुग्रे तपसि वर्तमानस्य किमपि जातशङ्कर्देवैर्मेनका नामाऽप्सराः प्रेषिता नियमविघ्नकारिणी] / राजा-अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् / अनसूया-तदो वसन्तोदारसमए से उम्मादइत्तरं रूवं पेक्खिन (-इत्योक्ते लजया विरमति ) / १'कचिन्न / 2 'कण्वः' / 3 'कण्णो' ( कण्वो)।