________________ ऽङ्कः]. अभिज्ञानशाकुन्तलम् 541 [अनसूये ! को नु खल्वेष चतुरगम्भीराकृतिश्चतुरं प्रियमालपन्प्रभाववानिव लक्ष्यते 1] / अनसूया-सहि ! मम वि अस्थि कोदूहलं / पुच्छिस्सं दाव ण / (प्रकाशम्-) अजस्स महुरालावजणिदो वीसम्भो मं मन्तावेदि-कदमो अजेण राएसिणो वंसो अलङ्करीअदि ? | कदमो वा विरहपज्जुस्सुअजणो किदो देसो ? / किंगिमित्तं वा सुउमारदरो बि तवोवणगमणपरिस्समस्स अत्ता पदं उवणीदो' ? / [सखि ! ममाप्यस्ति कौतूहलम् / पृच्छामि तावदेनम् / आर्यस्य मधुराऽऽलापजनितो विश्रम्भो मां मन्त्रयते-'कतम आर्येण राजर्षेवेशोऽलक्रियते / कतमो वा विरहपर्युत्सुकजनः कृतो देशः 1 / किंनिमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा पदमुपनीतः' ?] / शकुन्तला-(आत्मगतम्-) हिअअ ! मा उत्तम्म / एषा तुए चिन्तिदाई अणसूआ मन्तेदि। . [हृदय ! मा उत्ताम्य / एषा त्वया चिन्तितान्यनसूया मन्त्रयते] / राजा-(आत्मगतम्-) कथमिदानीमात्मानं निवेदयामि ? / कथं वाऽऽत्मापहारं करोमि.? / भवतु / एवं तावदेनां वक्ष्ये / ( प्रकाशम् -) भवति ! यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः, सोऽहमाश्रमिणामविघ्नक्रियोपलम्भाय धर्मारण्यमिदमायातः। अनसूया-सणाहा दाणिं धर्मआरिणो / [सनाथा इदानीं धर्मचारिणः ] / . (शकुन्तला-शृङ्गारलजां रूपयति ) / सख्यौ-( उभयोराकारं विदित्वा, जनान्तिकम्-) हला सउन्तले ! जह एत्थ अज तादो संणिहिदो भवे ! / [हला शकुन्तले ! यद्यत्राऽद्य तातः संनिहितो भवेत् ! ] / . शकुन्तला-तदो किं भवे ? / [ ततः किं भवेत् !] / सख्यौ-इमं जीविदसव्वस्सेण वि अदिहि विसेसं किदत्थं करिस्सदि। [ इमं जीवितसर्वस्वेनाप्यतिथिविशेष कृतार्थ करिष्यति / १'अभविष्यत्'। 2 'अकरिष्यत्' पा० /