________________ 5:] अभिज्ञानशाकुन्तलम् 537 [सखि अनसूये ! अतिपिनद्धेन वल्कलेन प्रियंवदया नियन्त्रिताऽस्मि / शिथिलय तावदेतत् / - अनसूया-तह / (-इति शिथिलयति )[ तथा] __प्रियंवदा-(सहासम्-) एत्थ पओहरवित्थारइत्तअं अत्तणो जोब्वणं [ अत्र पयोधरविस्तारयित आत्मनो यौवनमुपालभस्व ] / राजा-काममननुरूपमस्या वयसो वल्कलं, न पुनरलङ्कारश्रियं न पुष्यति / कृतः?सरसिजमनुविद्धं शैवलेनाऽपि रम्यं, ___ मलिनमपि हिमांशोलक्ष्म लक्ष्मी तनोति इयमधिकमनोज्ञा वल्कलेनाऽपि तन्वी, किमिव हि मधुराणां मण्डनं नाऽऽकृतीनाम् // 17 // शकुन्तला-( अंग्रतोऽवलोक्य-) एसो वादेरिदपल्लवङ्गुलीहिं तुवरेदि बिअ में केसररुक्खओ / जाव णं संभावेमि / (-इति परिक्रामति ) / [ एष वातेरितपल्लवाङ्गुलीभिस्त्वरयतीव मां केसरवृक्षकः / यावदेनं . संभावयामि]। प्रियंवदा-हला सउन्दले ! एत्थ एव्व दाव मुहुत्तरं चिट्ठ। जाव तुए उवगदाए लदासणाहो विअ अ केसररुक्खओ पडिभादि / . [हला शकुन्तले ! अत्रैव तावन्मुहूर्त तिष्ठ, यावत्त्वयोपगतया लतासनाथ इवाऽयं केसरवृक्षकः प्रतिभाति ] / शकुन्तला-अदो क्खु पिअंवदा सि तुमं / [ अतः खलु प्रियंवदाऽसि त्वम् ] / राजा-प्रियमपि तथ्यमाह शकुन्तलां प्रियंवदा / अस्याः खलु-- अधरः किसलयरागः, कोमलविटपाऽनुकारिणी बाहू / - कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् // 18 // अनसूया-हला सउन्दले ! इअं सवरवहू बालसहआरस्स तुए किदणामहेआ 'वणजोसणि'त्ति णोमालिआ / णं विसुमरिदा सि ? /