________________ 534 दाक्षिणात्यपाठानुसारि- . [प्रथमो (नेपथ्ये-) भो भो राजन् ! आश्रममृगोऽयं, न हन्तव्यो, न हन्तव्यः / सूतः-(आकाऽवलोक्य च-) आयुष्मन् ! अस्य खलु ते बाणपातवर्तिनः कृष्णसारस्याऽन्तरे तपस्विन उपस्थिताः। राजा-( ससंभ्रमं-) तेन हि प्रगृह्यन्तां वाजिनः। सूतः-तथा / (-इति रथं स्थापयति ) / (ततः प्रविशत्यात्मनातृतीयो वैखानसः)। वैखानस:-( हस्तमुद्यम्य-) राजन् ! आश्रममृगोऽयं, न हन्तन्यो, न हन्तव्यः। तत्साधुकृतसन्धान प्रतिसंहर सायकम् / आतंत्र णाय वः शलं, न प्रहर्तुमनागसि // 10 // - राजा-एष प्रतिसंहृतः। (-इति यथोक्तं करोति)। वैखानसः-सदृशमेतत्पुरुवंशप्रदीपस्य भवतः। . . जन्म यस्य पुरोवंशे युक्तरूपमिदं तव / पुत्रमेवगुणोपेतं चक्रवर्तिनमाप्नुहि // 11 // - इतरौ-(बाहू उद्यम्य-) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि / राजा-(सप्रणामम् ) प्रतिगृहीतम् / / वैखानस:-राजन् ! समिदाहरणाय प्रस्थिता वयम् / एष खलु कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते / न चेदन्यकार्यातिपातस्तत्प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः / अपि च रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य। ज्ञास्यसि 'कियद्भजो मे रक्षति मौर्वोकिणाङ्क' इति // 12 // राजा-अपि सन्निहितोऽत्र कुलपतिः ? / वैखानसः-इदानीमेव दुहितरं शकुन्तलामतिथिसत्काराय नियुज्य, दैवमस्याः प्रतिकूलं शमयितुं सोमतीथं गतः / राजा-भवतु / तामेव द्रक्ष्यामि / सा खलु विदितभक्तिं मां. महर्षेः कथयिष्यति / 1 'करिष्यति।