________________ ww 532 दाक्षिणात्यपाठानुसारि- [प्रथमो आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् / बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः // 2 // नटी-अज्ज एवं ! णेदम् / अणन्तरकरणिज्ज अज्जो आणवेदु / [ आर्य ! एवमेतत् / अनन्तकरणीयमार्य आज्ञापयतु ] / सूत्रधारः-किमन्यदस्याः परिषदः श्रुतिप्रसादनतः / तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् / संप्रति हि सुभगसलिलावगाहाः, पाटलसंसर्गिसुरभिवनवाताः / प्रच्छायसुलभनिद्रा, दिवसाः * परिणामरमणीयाः // 3 // नटी-तह / ( इति गायति)। [ तथा]। ईसीसि चुम्बिआई भमरेहिं सुउमारकेसरसिहाई। ओदंसन्ति दअमाणा पमदाओ सिरीसकुसुमाई // 4 // [ ईषदीषच्चुम्बितानि भ्रमरैः, सुकुमारकेसरशिखानि। अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि ] // 4 // सूत्रधारः--आर्ये ! साधु गीतम् / अहो रागबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः / तदिदानीं कतमत्प्रकरणमाश्रित्यैनमाराधयामः ? / नटी-णं अजमिस्सेहिं पढम एव्व आणत्तं-'अहिण्णाणसउन्दलं णाम अपुवं णाड पओए अधिकरीअदु'त्ति / ' [नवार्यमित्रैः प्रथममेवाज्ञप्तमभिज्ञानशकुन्तलं नामाऽपूर्व नाटकं प्रयोगेऽधिक्रियतामिति / सूत्रधारः-आयें ! सम्यगनुबोधितोऽस्मि / अस्मिन्क्षणे विस्मृतं खलु मया / कुतः 1 तवाऽस्मि गीतरागेण हारिणा प्रसभं हृतः। एष राजेव दुष्यन्तः सारङ्गेणाऽतिरंहसा // 5 // ( इति निष्क्रान्तौ)। प्रस्तावना। -