________________ श्रीगणेशाय नमः। अथ दाक्षिणात्यपाठानुसारि अभिज्ञान-शकुन्तलम् / या सृष्टिः स्रष्टुराद्या, वहति विधिहुतं, या हविर्या च होत्री, ये द्वे कालं विधत्तः, श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् / यामाहुः 'सर्वबीजप्रकृतिरिति, यया प्राणिनः प्राणवन्तः, प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः // 1 // (नान्द्यन्ते-) सूत्रधारः-(नेपथ्याभिमुखमवलोक्य-) आर्य ! यदि नेपथ्यविधानमवसितमितस्तावदागम्यताम् / नटी-अजउत्त ! इयं ह्मि / [ आर्यपुत्र ! इयमस्मि / सूत्रधारः-आर्य ! अभिरूपभूयिष्ठा परिषदियम् / अद्य खलु कालिदासप्रथितवस्तुनाऽभिज्ञान-शकुन्तलनामधेयेन नवेन नाटकेनोपस्थातव्यमस्माभिः / तत्प्रतिपात्रमाधीयतां यत्नः। नटी-सुविहिदप्पओअदाए अज्जस्स ण किं वि परिहाइस्सदि / [सुविहितप्रयोगतयाऽऽर्यस्य न किमपि परिहास्यते ] / सूत्रधारः-आर्ये ! कथयामि ते भूतार्थम् - 1 अभिज्ञानशकुन्तलस्य हि द्विविधः पाठो दृश्यते-गौडो, दाक्षिणात्यश्च / तत्र कलिकातामुद्रितनानाविधपुस्तकानुसारिणो गौडपाठस्य प्रायः श्लथवन्धस्यापि सर्वत्र परीक्षादिषु प्रचलितत्वात्तमनुसृत्य टीकाऽस्माभिर्विरचिता। परं दाक्षिणात्यपाठस्यापि सरसमधुरत्वाद्विद्वदाहतत्वाच्चमत्कारित्वाच्च रसिकजनानुरञ्जनाय परिशिष्टतया सम्प्रति संपूर्णमभिज्ञानशकुन्तलं मूलमात्रं दक्षिणापथप्रसिद्धपाठानुसारि संमुद्यते / 2 शकुन्तलाया अभिज्ञानं = परिचयः, स्वपत्नीत्वेन दुष्यन्तस्य परिचयः-अभिज्ञानशकुन्तलं / सप्तमेऽङ्के शकुन्तलाकृत राज्ञोऽभिज्ञानं वा / अभिज्ञानम् = अङ्गुलीयकं वा / करणेल्युट / राजदन्तादित्वाच्छकुन्तलाशब्दस्य परनिपातः / तमधिकृत्य कृतं नाटकमप्युपचारात्-अभिज्ञानशकुन्तलम् -इति बोध्यम् / 'शाकुन्तल' मित्यपि पाठान्तरम् /