________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 509 शकुन्तला-वच्छ, दे भाअधेआई पुच्छ / .[वत्स ! ते भागधेयानि पृच्छ / ] राजासुतनु ! हृदयात्प्रत्यादेशव्यलीकमपैतु ते, किमपि मनसः संमोहो मे तदा बलवानभृत् / प्रबलतमसामेवंप्रायाः शुभेषु हि वृत्तयः, . स्रजमपि शिरस्यन्धः क्षिप्ता धुनोत्यहिशङ्कया // 24 // (-इति पादयोः पतति ) / ते भागधेयानि = स्वं भाग्यं / तव सौभाग्यमेवेदमिति भावः / यद्वा-येन दुरदृष्टेन तातपुत्रयोरप्येवमपरिचयस्तदेव स्वं भाग्यं मन्त्रयस्वेत्याशयः। सुतन्विति / मुतनु ! = हे कृशाङ्गलतिके ! / तेस्तव / हृदयात् = मनसः / प्रत्यादेश एव व्यलीकम् = मत्कृतप्रत्याख्यानजनिताऽप्रीतिः / मन्युर्वा / अपैतु = गच्छतु / 'व्यलीकं त्वप्रियेऽनृते' इत्यमरः / यतः-तदा = तत्काले / यदा मया तव प्रत्याख्यानं कृतं तदा / किमपि = अलौकिकः कोपि / बलवान् / संमोहः = अज्ञानम् / मे अभूत् = जातम् / प्रबलं तमो येषान्तेषां-प्रबलतमसा = बलवदज्ञानाऽऽवृतमनसाम् / शुभेष्वपि = स्वशुभप्रदेष्वपि वस्तुषु / एवंविधाः = ईदृश्यः / तन्निराकरणात्मिकाः। प्रवृत्तयः- व्यापाराः। दृश्यन्ते / तथाहि-अन्धः-शिरसि, क्षिप्तां = निहितां / स्रजमपि = मालामपि / अहिशङ्कया = सर्पभ्रान्त्या / धुनोति = शकुन्तला हे वत्स ! अपने बढ़े हुए सौभाग्य से ही इस बात को पूछ / अर्थात्-तेरा आज बड़ा सौभाग्य है, जो तेरे ये पिता तेरे सामने उपस्थित * / __ राजा-हे सुतनु, हे सुन्दरि ! तेरे हृदय से मेरे द्वारा किए गए प्रत्याख्यान की वह अप्रिय बात निकल जानी चाहिए। क्योंकि उस समय मेरे मन में न मालूम कैसे अकारण बलवान् (जबरदस्त) मोह उत्पन्न हो गया था। और अज्ञान से आवृत चित्त वाले मनुष्यों की चित्तवृत्तियाँ अपनी कल्याणकारी वस्तु 1 क्वचिन्न /