SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः ] 32 अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 497 राजा-(स्वगतम्-) कथमकाऽन्ववायोऽयमस्माकम् / अतः खल मदनुकारिणमेनमत्रभवती मन्यते / (प्रकाशम्-) अस्त्येतत्पौरवाणामन्त्य कुलबतम् भवनेषु सुधासितेषु पूर्व, क्षितिरक्षार्थमुशन्ति ये निवासम् / नियतैकयतिव्रतानि पश्चात्, तरुमूलानि गृहीभवन्ति तेषाम् // 20 // उपनाम-किमिति प्रश्नाशयः। एकोऽन्ववायोऽस्य-एकान्ववायः = समानवंशः। 'वंशोऽन्ववायः सन्तानः' इत्यमरः / राज्ञोऽपि पूरुवंशोद्भवत्वेन पौरवत्वात् / अत: खलु = एकान्ववायत्वात् / मदनुकारिणं = मत्सदृशम् / अत्रभवती = पूज्येयं तापसी / मन्यते = अवबुध्यते / अन्ते भवम्-अन्त्यं = वानप्रस्थाश्रमकालपालनीयं / कुलस्य व्रतं-कुलवतं = वंशपरम्पराप्राप्तो नियमः। तं नियममेव दर्शयति-भवनेविति / ये = पौरवा राजानः। पूर्वम् = आदौ-यौवने / 'सुधासितेषु' इति पाठे-सुधाधवलेषु-इत्यर्थः / 'रसाधिकेषु' इति पाठे-रसा अधिका येषु तेषु-रसाधिकेषु = सुखदेषु / मनोहरेषु इति यावत् / 'रसो गन्धरसे, स्वादे, तिक्तादौ, विषरागयोः' इति विश्वः / क्षितिरक्षार्थ = पृथ्वीरक्षणाय / निवासं = वासम् / उशन्ति = वाञ्छति / तेषां = पौरवाणां / पश्चात वृद्धावस्थायां / नियतमेकं यतिव्रतं येषुयेषांतानि नियतैकयतिव्रतानि निरन्तरतपस्वित्रतानुष्ठानोचितानि / अगृहाणि गृहाणि भवन्ति-गृहीभवन्ति = निवासाय सम्प राजा-(मन ही मन) पौरव वंश तो मेरा भी है / तब तो यह मेरे ही वंश का बालक है। इसीलिए यह तापसी इसको मेरे ही समान आकृति वाला समझ रही है। (प्रकट में-) हाँ, पौरव कुल वालों का अन्तिम (वृद्ध) अवस्था यह में नियम रहता है, कि जो पौरव-पहिले सुधा से सफेद रंग रोगन से, चूने से सफेद) एवं चित्र विचित्र महलों में प्रजा की रक्षा के लिए निवास करना पसन्द करते हैं, अर्थात् रहते हैं। वे ही पौरव-पीछे वृद्ध अवस्था में नियम पूर्वक यतिव्रत . 1 'रसाधिकेषु' 2 'नियतैकपतिव्रतानि'-पा० /
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy