________________ 495 ऽङ्कः ] . अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् अनेन कस्याऽपि कुलाङ्कुरेण, स्पृष्टस्य गात्रेषु सुखं ममैवम् / कां निवृतिं चेतसि तस्य कुर्या द्यस्याऽयमोत्कृतिनः प्ररूढः // 16 // तापसी-( उभौ विलोक्य-) अच्चरीअं ! अञ्चरीअं !! / राजा–आर्ये ! किमिव ? / अनेनेति / अनेन कस्यापि-कुलस्य = वंशस्य, अङ्कुर इव-तेन = वंशाङ्कुरेण, कुलदीपकेन / गात्रेषु = अङ्गेषु / स्पृष्टस्य = आलिङ्गितस्य / मम एवं सुखं भवति / यस्य कृतिनः = भाग्यशालिनः। अङ्कात् = उत्सङ्गात् / अयं बाल:-प्ररूढः = वर्द्धितः, प्रसूतो वा / तस्य चेतसि = मनसि / कां निवृति = कां शान्ति-कुर्यात् / कुलादिसम्बन्धं विनाऽपि क्षणमात्रपरिचितोऽयं बालः शरीरसम्पर्कमात्रादपि यदि मां सुखयति तहिं यस्याङ्के चिरात्प्ररूढस्तस्य अयं कियती नाम शान्ति कुर्यादिति न शक्यते वर्णयितुमित्याशयः / 'अङ्गात्प्रसूत' इति पाठान्तरम् / [ अर्थापत्तिः / रूपकमनुप्रासः। उपजातिः // 19 // उभौ = दुष्यन्तबालकौ / निर्वर्ण्य = नितरां दृष्ट्वा / किमिव = किमाश्चर्यमिति हुआ, उस बालक के स्पर्श का अनुभव कर, मन ही मन-) किसी अन्य के कुल (वंश) के अङ्कुर स्वरूप इस बालक के स्पर्श से ही मुझे जब ऐसा सुख मिल रहा है, तो जिसका यह पुत्र है, और जिसने इसे पाला पोसा है, उसके चित्त में तो इसके स्पर्श न मालूम कैसा सुख होता होगा ? // 19 // __ तापसी-( दोनों को देखकर ) बड़े आश्चर्य की बात है ! ओह ! यह वो बड़े ही आश्चर्य की बात है ! / राजा-हे आयें ! ( हे श्रीमतीजी ) यहाँ आश्चर्य की क्या बात है / 1 'अङ्गात्कृतिनः प्रसूतः' पा० /