________________ 490 अभिज्ञानशाकुन्तलम्- [सप्तमोराजा--( बालस्य हस्तं दृष्ट्वा- ) कथं चक्रवर्तिलक्षणमप्यनेन धार्यते / प्रलोभ्यवस्तुप्रणयप्रमाग्तिो, विभाति जालग्रथिताङ्गुलिः करः। अलक्ष्यपत्रान्तरमिद्धरागया, . नवोषसा भिन्नमिवैकपङ्कजम् // 16 // चक्रवर्तिनः = सम्राजः / लक्षणं = चिह्नम् / ध्वजचापाङ्कुशशङ्खचक्रादिकम् / तच्च सामुद्रिकोक्तमित्यनुमन्धेयम् / प्रलोभ्येति / प्रकर्षण लोभ्यः, तस्य = प्रलोभ्यस्य = लोभोत्पादकस्य वस्तुनःक्रीडनकस्य / प्रणयेन = लोभेन / प्रसारितः = क्रीडनकप्रार्थनया, तत्प्रीत्या वा प्रसारितः / जालवद्थिता अङ्गुलयो यस्यासौ तथा = जालवत्संश्लिष्टाङ्गुलिः / जालेषु = च्छिद्रेषु ग्रथिता अङ्गुलयो यस्येति विग्रहे-अन्तरालसंश्लिष्टाङ्गुलिरित्यर्थः / करः = हस्तः / इद्धो रागो यस्यास्तया-इद्धरागया = समृद्धलौहित्यया / नवा चासो उषाश्च नवोषाः, तया-नवोषसा = नवप्रभातसन्ध्यया / भिन्नम् = विञ्चिद्विकसितम् / अत एव-अलक्ष्याणि पत्राणामन्तराणि यस्य तत्-अलक्ष्यपत्रान्तरम् = अप्रकटितपत्रसन्धि / एवञ्च तत् पङ्कजञ्च-एकपङ्कजम् = एक मुख्य, श्रेष्ठं कमलमिव / विभाति = शोभते / 'उषा रात्रौ, तदन्ते च स्यादनव्ययमप्युषा' इति विश्वः / 'उषः प्रत्युषसि क्लीबं, पितृप्रस्वां च योषिति' इति च भानुदाक्षिताः / (पितृप्रसू:--सन्ध्या ) / बालस्याऽस्य सुलोहितो मिलिताङ्गुलिहस्तः-प्रभातसन्ध्यया ईषद्विकसितमत एव संश्लिष्टपत्रमन्धि मृदुलतरं श्रेष्ठं शोभनं कमलमिव-भासते इति भावः / सूर्योदयाऽभावात्कमलस्य न पूर्णो विकामः / तदुक्तम्-अतिरिक्तः करो यस्य प्रथिता राजा-( बालक के हाथ को देखकर ) हैं ! इसके हाथ में तो चक्रवर्ती राजा के सभी चिह्न ( चक्र, धनुष, अंकुश आदि ) विद्यमान हैं ! / और अभिलषित वस्तु (खिलौना) में प्रेम होने के कारण, उसको लेने के लिए फैलाया हुआ, जाल की तरह गुंथी हुई अंगुलियों से शोभायमान, इसका यह हाथ ऐसा मालूम होता है, जैसे स्वतः लालवर्ण होते हुए भी प्रभातकालिक