________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 471 विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतांऽशुकेषु / .. सश्चिन्त्य गीतक्षममर्थबन्धं दिवौकसस्त्वञ्चरितं लिखन्ति // 5 // राजा-मातले ! असुरसम्प्रहारोत्सुकेन पूर्वेयुर्दिवमधिरोहता न लक्षितोऽयं प्रदेशो मया। तत्कतमस्मिन् पथि वर्तामहे मरुताम् ? / विच्छित्तीति / सुरसुन्दरीणां = देवाङ्गनानां / विच्छित्तेः शेषास्तैःविच्छित्तिशेषैः = अङ्गरागाऽवशिष्टेः। 'विच्छित्तिरङ्गरागेऽपीति विश्वः / वर्णैःकुङ्कुमकस्तूरीचन्दनादिनिर्मितैः-वर्णकैः = अङ्गरागैः, वर्णकैश्च / (वर्णक = अङ्गराग, स्याही, 'रंग') / एतेनाऽतिप्रियत्वं तद्यशसः सूचितम् / अमी दिवौकसः = देवाः / कल्पलतानामंशुकानि,तेषु = कल्पवृक्षसमुत्थितपटेषु ।गीतक्षम = गानयोग्यम् / अर्थजातं = पदार्थसमूहं / विचिन्त्य - विचार्य / काव्यं विरच्य / त्वच्चरितं त्वत्कृतानि दानवविजयादिकर्माणि-लिखन्ति / [परिणामः / अनुप्रासः / 'उपजातिवृत्तम्] // 5 // राजा-आत्मप्रशंसाश्रवणविलक्षः सन् प्रसङ्गान्तरं सञ्चारयति-असुरेति / असुराणां = दानवानाम् / सम्प्रहारे = युद्धे / उत्सुकेन = उत्कण्ठितेन / दिवं% स्वर्गम् / अधिरोहता = अरोहता-मया / पूर्वेद्युः = पूर्वस्मिन्दिवसे / पूर्वसमये / न लक्षितः = न यथावद् दृष्टः / तत् = तस्मात् / कथय मे परिचयार्थम् / मरुतां = वायूनां-कतमस्मिन् = कस्मिन् / पथि = मार्गे / सप्तसु वायुमार्गेषु-कस्मिन् वायुमार्गे / वयं वर्तामहे = वयं सम्प्रति प्रवर्तीमहे / गच्छामः / देवाङ्गनाओं के अङ्गरागों से बचे हुए भाग (रंग) से, कल्पलता (कल्पवृक्ष) से निर्मित रेशमी वस्त्रों पर, गाने योग्य पद और अर्थों के बन्ध (काव्य) को विचार पूर्वक बना२ कर, ये देवतागण तुमारे इस सुन्दर चरित को लिख रहे हैं!॥५॥ राजा-हे मातले! असुरों से युद्ध करने की उत्सुकता के कारण पहिले दिन तो मैंने स्वर्ग जाते समय इस प्रदेश को ठीक 2 नहीं देखा था। अतः कहिए-सात वायुमण्डलों में से अब इस समय हम लोग कौन से वायुमण्डल . के मार्ग में चल रहे हैं ? / 1 'गीतिक्षममर्थबात।