________________ 472 अभिज्ञानशाकुन्तलम् [सप्तमो मातलि:त्रिस्रोतसं वहति यो गगनप्रतिष्ठा, .. ज्योतींषि वर्त्तयति च प्रविभक्तरश्मि / तस्य द्वितीयहरिविक्रमनिस्तमस्कं वायोरिमं परिवहस्य वदन्ति मार्गम् // 6 // आवहादयः सप्त वायुस्कन्धास्तत्र कतमस्मिन् वायुस्कन्धे सम्प्रति वयं वर्तामहे इति प्रश्नाशयः / त्रिस्रोतसमिति / यः = मार्गः / गगने प्रतिष्ठा = अवस्थितिर्यस्याः सा तागगनप्रतिष्ठां = गगनगामिनीं / स्वर्गनदीं / त्रिस्रोतसं = स्वर्गगङ्गां मन्दाकिनी नाम / वहति = धारयति / च% किञ्च / पुनः। प्रविभक्ता रश्मयो यस्मिन् कर्मणि तत्प्रविभक्तरश्मि = असङ्कीर्णकिरणं यथा स्यात्तथा। ज्योतींषि = सप्तर्षिस्थानानि च / बर्तयति = प्रवर्त्तयति / सञ्चारयति / द्वितीयेन-हरेः-वामनस्य विष्णोः, विक्रमेण = पादन्यासेन / निस्तमस्कं = तमोलेशशून्यं / निर्दोषं / परिवहस्य = परिवहाख्यस्य षष्ठस्य / तस्य = प्रसिद्धस्य वायोः, इमं मार्ग=मण्डलं बदन्ति / परिवहो नाम-वामनद्वितीय चरणन्यासपवित्रः, स्वर्गङ्गा-सप्तर्षिमण्डलादिप्रवर्तकः, षष्ठो वायुस्कन्धः / तदुक्त ब्रह्माण्डपुराणे 'आवहः, प्रवहश्चैव, संवहश्चोद्वहस्ततः / विवहाख्यः, परिवहः, परावह इति क्रमात् / / सप्तैते मारुतस्कन्धा महर्षिभिरुदीरिताः / ' इति / 'सप्तर्षिचक्रं, स्वर्गङ्गां षष्ठः परिवहस्तथा / ' इति / (अस्य-वर्तयेदिति शेषः)। 'भुवं सनाकं त्रिदशाधिवासं, सोमार्कऋक्षैरभिवन्दितं नमः / देवो द्वितीयेन जगाम देगात्क्रमेण देवप्रियमीप्सुरीश्वरः // इति च / माताल-जो परिवह नामक वायुमण्डल आकाशगामिनी गङ्गाजी ( मन्दाकिनी ) को धारण करता है, और जो अलग 2 रश्मियों ( किरणों ) के विभाग १'चक्रविभक्तरश्मिः ' पा०। 2 'तस्य व्यपेतरजसः प्रवहस्य वायोर्मागों द्वितीयहरिविक्रमपूत एषः' पा० /