________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 469 राजा-अत्रे खलु शतक्रतोरेव महिमा / पश्यसिध्यन्ति कर्मसु महत्स्वपि यनियोज्याः, सम्भावनागुणमवेहि तमीश्वराणाम् / किं प्राभविष्यदरुणस्तमसां वधाय, तश्चेत्सहस्रकिरणो धुरि नाऽकरिष्यत् // 4 // सुखे परः = प्रसक्तो वा-सुखपरः। तस्य सुखपरस्य = सुखोपभोगपरायणस्य / हरेः= इन्द्रस्य / त्रिदिवं = स्वर्गः / 'त्रिदिवं सुखे, स्वर्गे चेति हैमः। __अधुना = सम्प्रति / नतानि = गूढानि, पर्वाणि = ग्रन्थयो येषान्तैः-नतपर्वभिः = नतग्रन्थिभिः / धौतमसृणतीक्ष्णफलैः / तव = शरैः = बाणैः / च = किञ्च / पुरा = पूर्वकाले च / पुरुषश्चासौ केसरी च, पुरुषः केसरीवेति वा-पुरुषकेसरी। तस्य-पुरुषकेसरिणः = नृसिंहस्य भगवतः। नतं = नमनं, पर्वणः सकाशाद्येषां तैः,-नतानि पर्वाणि येषां तैरिति वा-नतपर्वभिः = पर्वभागादारभ्य कुञ्चितैः / आभुग्नाप्रैः / कुटिलैरिति यावत् / नखैश्च = नखरैश्च / उभयैः = पुरुषकेसरिणो नखैः, तव शरैश्चेत्युभयैः। दानवाः कण्टका इव-दानवकण्टकाः, उद्धृता दानवकण्टका यस्मात्-तत् उद्धतदानवकण्टकं = समूलोन्मूलितराक्षसरूपकण्टकंत्रिदिवं कृतम् / पुरा युगे नृसिंहस्य नखैः, अद्यत्वे तु त्वच्छरैश्च स्वर्गस्य कण्टकस्थानीया इन्द्रस्य शत्रवो दूरीकृताः। अत एव भगवानिन्द्रस्तु निरन्तरं सुखमेवानुभवतीति भावः / [ तुल्ययोगिता / उपमाऽनुपासौ / द्रुतविलम्बित वृत्तम् ] // 3 // कण्टकों से रहित इन दोनों ही ने तो किया है। एक तो-इस समय आप के नतपर्व (घिसी हुई गांठों वाले, तीखे फलों वाले ) इन बाणों ने, और दूसरे पूर्वकाल में पुरुषोत्तम भगवान् नृसिंह जी के तीखे 2 नखों ने / (भगवान् नृसिंहजी ने भी हिरण्यकशिपु को मार कर स्वर्ग को निष्कण्टक कर दिया था) // 3 // राजा-ठीक है, मैंने भी जो दुर्जय दुर्दान्त उन असुरों का वध किया है, वह भी तो शतक्रतु भगवान् इन्द्र को ही महिमा तो है / क्योंकि, देखो 1 'तत्र' पा० / 2 'किं वाऽभविष्यदरुणस्तमसां विभेचा' पा०।..