________________ अभिज्ञानशाकुन्तलम्- [सप्तमोमातलि:-( सस्मितम्-) आयुष्मन् ! उभयत्राऽप्यसन्तोषमवगच्छ / कुतः ? उपकृत्य हरेस्तथा भवा ल्लँघु सत्कारमवेक्ष्य मन्यते / गणयत्यवदानसंमितां भवतः सोऽपि न सत्क्रियामिमाम् // 1 // बोध्यः / अनुपयुक्तमिव = अकृतोपकारमिव / आत्मानं समर्थये = आत्मानं सम्भावयामि। न मया महेन्द्रस्य किञ्चिदपि कार्यमनुष्ठित मिति-असन्तुष्टमिवात्मानं तर्कयामि। मत्कार्यादप्यधिको महेन्द्रकृतो मल्सत्कार इति यावत् / तदित्य-मया दानवा युद्धे निपातितास्तुष्टेनेन्द्रेण च महती मे सन्क्रिया कृतेति राज्ञा सूचितमेतेन / उभयत्रापि = भवच्चित्त इव, मघवचित्तेऽपि / असन्तोषमवगच्छ = भवतामिव 'न मया राज्ञोऽनुरूपा सक्रिया खल्वकारी'ति हेतोरिन्द्रस्याप्यसन्तोषं विद्धि / कुतः= कस्मादसन्तोष इति स्वयमेव विशदयति-उपकृत्येति / हरेः= इन्द्रस्य / तथा महता श्रमेण / दानवानां विजयेन / उपकृत्य = भवानेवमुपकारं विधायाऽपि / सत्कारमवेक्ष्य = इन्द्रकृतं विशिष्टं स्वसत्कारमवेक्ष्य / इन्द्रकृतसत्कारापेक्षया आत्मनः श्रमादिकं / लघु = अत्यल्पमेव / (यथा) भवान् मन्यते = चिन्तयति, (तथैव ) सोऽपि = मघवाऽपि / इमां सत्क्रियां = भवन्तमुद्दिश्य स्वेन कृतां पूजां / भवतः= तव / अवदानेन = भवत्कृतकर्मणा, संमिताम् = तुल्याम् , अवदानसंमितांभवत्कृतोपकाराऽनुरूपां। न गणयति = न विचारयति / 'अवदानं कर्म वृत्त'मित्यमरः / यथा इन्द्रकृतां सक्रियामवेक्ष्य भवान् स्वस्य श्रमं लघु मन्यते, एवमेव महेन्द्र ने जो विशेष आदर और सत्कार किया है, उसको देखते हुए अपने को मैं उनके प्रत्युपकार के भार से दबा हुआ एवं लजित, असन्तुष्ट, तथा 'महेन्द्र का मैंने कुछ भी कार्य नहीं किया है-यही समझ रहा हूँ।' मातलि-(मुस्कराता हुआ-) हे आयुष्मन् ! दोनों ओर इसी प्रकार का ही असन्तोष ( हमने कुछ भी उपकार व प्रत्युपकार इनका नहीं किया हैयही असन्तोष ) आप समझिए / क्योंकि - ___ भगवान् इन्द्र का शत्रुसंहाररूपी इतना बड़ा उपकार करके भी, इन्द्र के द्वारा किए गए सत्कार विशेष के कारण, अपने किए हुए उपकार को भी आप उनके द्वारा किए गए सस्कार की अपेक्षा छोटा ही समझ रहे हैं, और भगवान्