________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 421 पल्लवस्य बालचूतवृक्षस्य पार्श्वे आलिखिता, एषा तत्रभवती शकुन्तला / इतरे सख्यौ -' इति / - राजा-निपुणो भवान् ! / अस्त्यत्र ममापि भावचिह्नम्,-.. खिन्नाऽङ्गलिविनिवेशाद्रेखा प्रान्तेषु दृश्यते मलिना। अश्रु च कपोलपतितं लक्ष्यमिदं वर्णकोच्छासात् // 19 // स्निग्धतराः पल्लवा यस्य तस्य = जलसेकाकिसलस्य / बालचूतवृक्षस्य = आम्रपादपस्य / पार्श्वे = निकटे / आलिखिता = उल्लिखिता। अतोऽत्र यथैव प्रथमदर्शने शकुन्तला राज्ञा दृष्टा, तथैव तेन चित्रे लिखितेति ध्येयम् / निपुणः = पटुः / अस्त्यत्र= अस्या एव प्रतिकृतरुपरि वर्तमानं / भावचिह्न = मदीयाश्रुप्रस्वेदादिपतनाच्चिह्नम् / इत्यञ्च तैरेव चिह्नातुं शक्यते एषा शकुन्तलेति। ____ मम = चित्रकारस्य मे। भावस्य = मद्तस्य रत्यादेः, विभावानुभावादेः, सात्त्विकमावस्य च / 'विकारो मानसो भावः' इत्यमरः / चिह्न = लक्ष्म / अश्रुबिन्दुप्रस्वेदरेखादिकम् / अत्र = अस्मिन् चित्रफलके / यो प्रतिकृति-शकुन्तलेय'मिति तर्कयसि, तस्यामेव मदङ्गुलीस्पर्शादिना मत्सात्त्विकभावचिह्न प्रस्वेदरेखादिकं जातमित्याशयः। चिह्नमेवाह-स्विन्नेति / प्रान्तेषु = चित्रफलकपर्यन्तभागेषु स्विन्नानामङ्गुलीनां, विनिवेशात् = स्थापनात् / प्रस्वेदाविलाङ्गुलीसम्पर्कात् / मलिना = श्यामा / रेखा = अङ्गुल्यादिरेखा,-दृश्यते / च = पुनः / वर्णकस्य = रञ्जनवर्णस्य- ('रंग')। उच्चासात् = उच्छूनत्वात् / कपोलयोः पतितं = गण्डस्थलपतितम्-इदम्-अश्र / लक्ष्यं = ज्ञातुं शक्यम् / अङ्गुलिरेखादिभिः स्वेदाऽनुमेयः, चित्रवर्णकोच्छूनत्वादिना चाऽश्रु लक्षणीयमिति भावः / से पौधे ) के पार्श्व में (बगल में ) लिखी हुई है, यही शकुन्तला है। बाकी ये दोनों इसकी सखियाँ हैं। राजा-वाह ! तुम बड़े बुद्धिमान् और चतुर हो / तुमने ठीक ही समझा है / यही शकुन्तला है / और देखो, इस शकुन्तला की प्रतिमा (चित्र) के ऊपर मेरे भाव ( अनुराग के चिह्न भो दीख रहे हैं। जैसे-अपनी प्रिया को याद