________________ 380 अभिज्ञानशाकुन्तलम् [षष्ठो[त्वमसि मया चूताङ्कर ! दत्तः कामाय गृहीतचापाय। पैथिकजनयुवतिलक्ष्यः, पञ्चाऽभ्यधिकः शरो भव ] // 3 // (-इतिचूताऽङ्कुर क्षिपति ) / त्वमसीति / चूताङ्कुर = हे आम्रप्रसव ! / हे चूतमञ्जरि !| गृहीतश्वापो येन तस्मै-गृहीतचापाय = धनुर्द्धराय / मानिनीमानभञ्जनसन्नाहशालिने / कामाय = मदनाय / मया चेट्या / प्राकृते प्रायो विभक्तिव्यत्ययो भवत्यतो 'मे' इत्यस्य मयेति च्छाया भवति / दत्तः = अर्पितः / त्वं-परि = सर्वतोभावेन, कुपिता युवतो लक्ष्यं यस्यासौ-परिकुपितयुवतिलक्ष्यः = मानिनीजनमानभेदनः सन् / पाठान्तरे-पथिकजनयुवतिलक्ष्यः= पान्थस्त्र हृदयकर्तनः सन् / पञ्चसु अधिकःपञ्चाभ्यधिकः = पञ्चशरव्यतिरिक्तः / मानिनी मानभङ्गरूपकार्यस्य अमोघः साधकः / सायको भव = कामस्य सर्वशरश्रेष्ठो बाणों भव / श्रेष्ठत्वं च आशुकार्यकारित्वादिति भावः / 'पथिकजनयुवतिलक्ष्यः' - इति पाठे-पथिक जनानां युवतयो लक्ष्यं यस्यासौ तथेतिविग्नहः / विरहिणीहृदय-( मर्मस्थल )-विदारक इति तदर्थो बोध्यः / 'अर्हसि मे चूताङ्कर-शरोभवितु'मिति पाठे-कामशरो भवितुमर्हसीति योजना बोध्या / 'गृहीतचापाय = मृहीतधनुषे' इत्यनेनकामस्य सर्वेषां शराणां मानिनीमानभङ्गकर्मणि कुण्ठिततया अमोघं त्वां प्रतीक्षमाणः स्मरोऽत्र तिष्ठति, तत्कुरु मानिनीमानखण्डन कर्मणि स्मरस्य साहाय्यमिति व्यज्यते / कामस्य च–'अरविन्दमशोकञ्च, शिरीषं, चूतमुत्पलम् / पश्चैतानि प्रकीय॑न्ते पञ्चबाणस्य सायकाः // इति पञ्च बाणा भवन्ति / 'गृहीतचापाय = गृहीत. धनुषे' इत्यनेन = कामस्य सजत्वं ध्वन्यते / चूनाङ्कुरं दृष्ट्वा मानिन्यो मान रक्षितुं न शक्नुवन्तीति वसन्तसमयस्य कामोद्दीपकतातिशयोऽपि ध्वन्यते // 3 // भगवान् कामदेव को अर्पण किए गये, हे आम के अङ्कुर !, धनुष को धारण किए हुए भगवान् कामदेव के आप पांचों बाणों में अधिक श्रेष्ठ (सर्वश्रेष्ठ) बाण बनकर और पथिक ( परदेशी ) लोगों की युवती स्त्रियों के हृदयों को तथा कुपित मानिनी स्त्रियों के हृदयों को जाकर वेधन कर उन्हें व्याकुल करो // 3 // 1 'अर्हसि मे' पा० / 2 'गृहीतधनुषे' पा० / 3 'परिकुपितयुवतिलक्ष्यः' / 4 'पञ्चान्तरितः' इति पाठे तन्मध्यवर्ती आम्रबाण इत्यर्थः / 5 'भवितुं' पा० /