________________ 378 अभिज्ञानशाकुन्तलम् [षष्ठो [मधुकरिके ! तवाऽप्येष कालो मेदविभ्रमोद्गीतानाम् / द्वितीया--सहि' ! अवलम्बस्स मं जाव अग्गपदे परिट्टिदा भविअ चूअप्पस गेह्निअ सम्पादेमि कामदेवस्स अञ्चणं / / [ सखि ! अवलम्बस्व माम् / यावदग्रपदे परिस्थिता भूत्वा, चूतप्रसवं गृहीत्वा, सम्पादयामि कामदेवस्याऽर्चनम् ] / प्रथमा–जइ एवं ता ममावि अद्धं अच्चणफलस्स / [ यद्येवं तन्ममाप्यर्द्धमर्चनफलस्य ] / नाम चेटी। किञ्च-मधुकर्येव मधुकरिकेति व्युत्पत्तेमधुकरिका भ्रमर्यपि, नामसादृश्यात् , अत आह-तवेति / तव = मधुकरिकायाश्चेटयाः। भ्रमर्याश्च / एषः = वसन्तसमयः / मदेन यो विभ्रमस्तेन-उद्गीतानां-मदविभ्रमोद्गीतानाम् = उन्मदमविलाससविभ्रमतारतरगीतानां / कालः = उचितः समयः / भ्रमरी किल वसन्ते सहकारकोरकेषु, मञ्जरीषु च भ्राम्यन्ती सविभ्रमं कल गायति / त्वमपि च गीतविनोदप्रिया भ्रमरीव गीतं प्रारभस्व / अवलम्बस्व = कराग्रेणाऽबलम्बनं देहि / पदयोरग्रे-इति-अग्रपदे = पादाङ्गुलीसमाश्रयेण / परिस्थिता = उन्नता / चूतस्य प्रसवम् = चूतमञ्जरीम् / आम्रस्य प्रांशुलभ्यत्वाद्वालायास्तल्लाभायाऽग्रपदावस्थितिरुचितैव / अभिनवचूतमञ्जरीभिः कामार्चनं मदनोत्सवे भवतीति लोकसमयः / यद्येवं = यदि चूत प्रसवं त्वं कामार्चनायाऽवचिनाषि, तर्हि अर्चनफलस्य = कामपूजाफलस्य / अर्द्धम् = अर्द्धं फलं ममापि भवतु | अर्द्ध फलं त्वं मह्यं देहि, तदा तब साहाय्यमाचरामाति भावः। का भी तो यही समय है। (मधुकरिका = भ्रमरी-भी वसन्त में मस्त हो कर, आमकी मञ्जरियों पर व फूलों पर गूंजती फिरती है, और तेराभी नाममधुकरिका = भ्रमरी है ही, अतः तूं भी आनन्दविभोर हो मस्ती से गाना गा)। दूसरी चेटी-हे सखि ! मुझे तो तूं यदि थोड़ा सहारा देतो मैं अपने पैरों के अग्रभाग पर (पक्षों के सहारे ) खड़ी होकर, आमकी कली को तोड़कर, उससे भगवान् कामदेव की पूजा करूं / पहिली चेटी-यह तो ठोक है, पर कामदेव के पूजन के फल में यदि आधा फल मेरा भी हिस्सा रहे, तभीमें तेरी सहायता कर सकूँगी। 1 विश्रम्भोद्गीतानां' पा० /