________________ 34 अभिज्ञानशाकुन्तलम् [प्रथमो धास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य / / ज्ञास्यसि 'कियद्भुजो मे रक्षति मौर्वीकिणाङ्क' इति ? // 13 // राजा-अपि सन्निहितोऽत्र कुलपतिः ? / ' वैखानसः-इदानीमेव दुहितरं शकुन्तलामतिथिसत्कारायाऽऽदिश्य' दैवमस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः / ___धा इति / धर्मादनपेता धाः = वेदविहिताः, तप एव धनं येषान्तेतपोधना:-तेषां = तापसानां, प्रतिहता विना याभ्यस्ताः-प्रतिहतविघ्नाः = निरस्तान्तरायाः, क्रियाः = यज्ञादिक्रियाः, समवलोक्य = साक्षाद् दृष्ट्वा, मौाः किणैरङ्को-भूषा यस्यासौ-मौर्वी किणाङ्कः = ज्याऽऽघातरूढव्रणविभूषितः, भुजः = बाहुः, दक्षिणः, कियद्रक्षति ? = कीदृग्रक्षति ? / इति = इत्येतत्, ज्ञास्यसि = अनुभविष्यसि / 'अङ्को भूषणलक्ष्मसु' इति हैमः। [श्रतिवृत्त्यनुप्रासौ, काव्यलिङ्गं, 'किणाङ्केति-पुनरुक्तवदाभासश्च ] || 13 // अत्र = आश्रमे, कुलपतिः = महर्षिः कण्वः, संनिहितः, = स्थितः,अपि = किं ? / प्रश्नेऽत्रापिः / 'गर्हा-समुच्चय-प्रश्न-शङ्का-सम्भावनास्वपि'-इत्यमरः / अतिथिसत्काराय = अतिथिसत्काररूपकार्यसम्पादनाय, आदिश्य = नियुज्य, अस्याः = शकुन्तलायाः, प्रतिकूलम् = अशुभं, विवाहादिप्रतिबन्धकं, दैवम् = अदृष्टम्, शमयितुं = शान्त्यादिना प्रतिविधातुम् / सोमतीर्थ = चन्द्रकूपं / [ इदं तीर्थं च्यवनाश्रमे सम्प्रति 'ढासी' ति प्रसिद्ध पर्वते ('नारनौल' पटियालास्थे ) भवेत् / यद्वा कुरुक्षेत्रान्तर्गतं 'जीन्द'राज्ये 'पाण्डु-पिण्डारा इति सुप्रसिद्धं सोमतीर्थ भवेत्। एतेन द्रागेवास्या दुरदृष्टं शान्तं भविष्यतीति शापान्तः सूचित इति वीजसूचकवाक्यमेतत्। अपनी आंखों से तपस्वी मुनियों की धार्मिक क्रियाओं को निर्विघ्न होते हुए देख कर आप यह जान सकेंगे कि धनुष की मौर्वी ( डोरी ) के आघात से कठिनीभूत यह आपका हाथ-कैसी उत्तमता से प्रजा की तथा धार्मिक जनता की रक्षा कर रहा है // 13 // राजा-क्या कुलपति कण्व मुनि इस समय आश्रम में विराजमान हैं ? / वैखानस-कुलपति कण्व तो, अभी थोड़ा समय हुआ, अपनी कन्या 1 'रम्याः ' / 2 'नियुज्य' /