________________ अभिज्ञान-शाकुन्तलम् [प्रथमोराजा--( संप्रणामम्-) एष प्रतिसंहृत एवं / (-इति यथोक्तं करोति) वैखानसः--( सहर्ष-) सदृशमेवैतत्पुरुवंशप्रदीपस्य भवतः। जन्म यस्य पुरोवंशे युक्तरूपमिदं तव / पुत्रमेवगुणोपेतं चक्रवत्तिनमामहि // 12 // सप्रणामम् = सादरं प्रणम्य / प्रणामपूर्वकमाहेत्यर्थः। एषः = अयं / भवदुक्त्यनन्तरमेव कृतसन्धानोऽयं शरः, प्रतिसंहृतः = मया तूणीरे स्थापित एव। वर्तमानसामीप्ये लट / इति = इत्युक्त्वा, यथोक्तं = यथाकथितं, करोति = शरं निषङ्गे स्थापयति / ___एतत् = तापसवचनादरणम्, पुरोर्वेशस्य प्रदीप इव-प्रदीपस्तस्य पुरुवंशप्रदीपस्य = पुरुराजवंशभूषणस्य भवतः / पौरवस्य राज्ञः / __जन्मेति / यस्य पुरोर्वेशे जन्म तस्य तव / इदं = मुनिवचनपालनम्, अतिशयेन युक्तं-युक्तरूपम् / अत्र प्रशंसायां रूपप् / एवंगुणैरुपेतस्तम्-एवंगुणोपेतम् = ईदृशगुणोपेतं / स्वानुरूपं, सकलगुणगणोपेतम् / चक्रे वर्त्तते तच्छील:चक्रवर्ती, तं चक्रवर्तिनं = सार्वभौमम् / 'चक्रवती सार्वभौमः'-इत्यमरः / आप्नहि = लभस्व / प्रथमपदार्थस्य द्वितीयपदार्थ प्रति हेतुत्वात्काव्यलिङ्गम् / / 12 // राजा-(प्रणाम करता हुआ-) लीजिए मैंने अपना बाण यह उतार लिया। (बाण को धनुष पर से उतारता है)। वैखानस-(हर्षपूर्वक ) पुरुवंश के प्रदीप स्वरूप आपके लिए यह कार्य ( आश्रम की मर्यादा की रक्षा करना) अपने कुल की मर्यादा के अनुरूप ही है। जिसका पुरुवंश में जन्म है, ऐसे आपके लिए इस आश्रम मृग को अभयदान देना, तथा तपस्वियों की आज्ञा को मानना, सर्वथा उचित ही है। अतः हे राजन् ! आपको-आपके ही सदृश-सर्वगुणसम्पन्न चक्रवर्ती पुत्र प्राप्त हो // 12 // 1 कचिन्न / 2 'मेतत् /