________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 339 राजा--अयि तापसवृद्धे ! स्त्रीणामशिक्षितपटुत्वममानुषीणां संदृश्यते, किमुत याः परिबोधवत्यः / प्रागन्तरिक्षगमनात्स्वमपत्यजात ___ मन्यैविजैः परभृताः किल पोषयन्ति ! // 23 // भिज्ञः = अविदितः / कैतवस्य = कपटस्य / मिथ्याकल्पनारूपकपटस्य / तापसी चासौ वृद्धा च तत्सम्बुद्धौ-तापस वृद्धे ! = हे वृद्धतापसिके ! / - स्त्रीणामिति / अमानुषीणामपि स्त्रीणां = तिर्यग्जातीयानामपि स्त्रीणाम् / 'अमानुषीष्विति पाटान्तरे स्त्रीणां मध्ये-अमानुषीषु = मनुष्यजातिव्यतिरिक्तास्वपि / अशिक्षितञ्च तत्पटुत्वञ्च-अशिक्षितपटुत्वम् = उपदेशं विनाऽपि निगूढ वञ्चनाचातुर्यम् / संदृश्यते = विलोक्यते / किमुत याः प्रतिबोधवत्यः / याः-प्रति बोधोऽस्त्यासां ताः-प्रति बोधवत्यः = हस्तपादवागादियुता व्यवहारकुशला मानुष्यः। ताः किमुत ? = तासां कौशले तु पुनः किं वक्तव्यम् ? / खलु = यतः / अन्तरिक्षगमनात् = आकाशगमनशक्तिलाभात् / उड्डयनात् / प्राक = पूर्वं यावत् / स्वम् = आत्मीयम् / अपत्यजातम् = अपत्यसमूहम् / 'जातं जात्योघ जन्मसु' इति विश्वः / अन्यैः द्विजैः = अन्यैः पक्षिभिः / काकैः / फिल = खलु / परभृताः = कोकिलाः / पोषयन्ति = पालयन्ति / कोकिलाः स्थान्यपत्यानि काककुलायेषु निक्षिपन्ति, काकाश्च तानि स्वापत्यबुद्धया पालयन्तीति कविप्रसिद्धः। तदेवं तिर्यग्जातिष्वपि वाग्बुद्धिव्यवहारशून्या अपि स्त्रियो यदि कपटकुशलाः स्युस्तर्हि किं वक्तव्यं-बुद्धिमतीषु मानुषीषु कामिनीषु कपटकौशलमिति-राज्ञा शकुन्तलाऽधिक्षिप्ता / [व्यतिरेका राजा-हे तापस वृद्ध ! ज्ञानवती मानुषी स्त्रियों की तो बात ही क्या है, पशु-पक्षी जाति की अज्ञान स्त्रियाँ भी, सिखाए बिना, स्वभाव से ही, चतुर और चालाक देखी जाती हैं / देखो, कोकिलाएं (कोयल) जब तक उनका बच्चा आकाश में उड़ने लायक नहीं हो जाता है. तब तक उसका पालन-पोषण अन्य पक्षियों से ( कौवों से ) हो कराती हैं / ( कोयल-अपने बच्चे को कौवे के 1 'ममानुषीषु' पा०। 2 'अन्यद्विजैः' पा० /