________________ ऽङ्कः] - अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 25 ( सविस्मयं-) तदेष कथमनुपतत एव में प्रयत्नप्रेक्षणीयः संवृत्तोऽयं] मृगः ? / सूतः- आयुष्मन् ! 'उद्घातिनी भूमि'रिति-मया रश्मिसंयमनाद्रथस्य मन्दीकृतो वेगः, तेन मृग एष विप्रकृष्टः संवृत्तः / सप्रति हि समदेशवर्ती न ते दुरासदो भविष्यति / तत् = तस्मात्, इत्थमुदग्रप्लवनादेव, अनुपततः = पश्चाद्धावतोऽपि, मे = मम, प्रयत्नेन प्रेक्षणीयः-प्रयत्नप्रेक्षणीयः = दूरङ्गत इति हेतोर्मूगोऽयं कृच्छ्रेण विलोकनीयः, संवृत्तः = संजातः। मृगस्य अतितरां धावनाद्राज्ञो विस्मयोऽत्र बोध्यः / ___ उद्घातिनी = स्खलनप्रदा [ समविषमा / गतबहुलेति यावत् ] / 'उद्धातः कथ्यते पादस्खलने, समुपक्रमे' इति विश्वः / ___ इति = अतो हेतोः, रश्मीनां संयमनं, तस्मात्-रश्मिसंयमनात् = प्रग्रहप्रकर्षणात् / 'अभीषुः प्रग्रहे, रश्मौ' इत्यमरः / अमन्दो मन्दः कृतो मन्दीकृतः = तनुतां नीतः / तेन = तेन हेतुना, विधकृष्टः = दूरः, संवृत्तः = जातः। सम्प्रति = इदानीन्तु, समे देशे वर्तते तच्छीलः = समदेशवर्ती = आश्रमाभोगभूमिमधिगतः, अतएव-न ते = न खलु तव, दुरासदः = अप्राप्यो भविष्यतीत्यर्थः / ... मयैव रथवेगो मन्दीकृत इति-मृगोऽयं दूरं यातः, इदानीं तु समा भूमिः, तेन मृगो द्रागेव ते हस्तं प्रयास्यत्ययमिति सूताशयः / (विस्मय = आश्चर्य के साथ-) देखो 2, हमारे इतने वेग से इसके पीछे दौड़ने पर भी यह हरिण तो देखते 2 ही आँखों से ओझल ( दूर ) सा होता जा रहा है ! / अब तो यह बड़ी कठिनता से दिखाई देता है। ओह ! बहुत दूर चला गया है ! सूत--आयुष्मन् ! (= महाराज !) ऊँची-नीची ( ऊबड़-खाबड़) भूमि होने के कारण मैंने ही घोड़ों की लगाम खींचकर रथ का वेग कुछ कम कर दिया था। इसीलिए यह मृग इतना दूर चला गया है। परन्तु अब तो समतल भूमि आ गई है, अतः अब इसे शीघ्र ही आप पा लेंगे। 1 कचिन्न / 2 'मन्दीभूतो' पा० / 3 'तेनैष मृगो विप्रकृष्टः' पा० /