________________ 24 अभिज्ञान शाकुन्तलम् [प्रथमोदभैरर्दावली ढेः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्मा, पश्योदग्रप्लुतत्वाद्वियति बहुतरं, स्तोकमुर्त्या प्रयाति // 7 // कायस्य पूर्वकायस्तं पूर्वकायं = शरीरस्य पूर्व भागं प्रविष्ट इव / पुच्छादिपृष्ठान्तो भागः कायस्य पश्चार्द्धः / मुखादिर्नाभिपर्यन्तो भागः कायस्य पूर्वार्द्धः / एवञ्च भयाएच्छप्रदेशं नाभ्यादिभागे प्रवेशयतीवेति भीतानां मुगाणां स्वभावाख्यानमेतत् / वर्तुलितसकलशरीर इति यावत् / किञ्च- श्रमेण विवृतं यन्मुखं, तस्माद् भ्रश्यन्ति-तैः-श्रमविवृतमुखभ्रंशिभिः = धावनश्रमविकसितस्ववदनात् भ्रश्यद्भिः, अर्द्धमवलीढा अविलीढाम्तैः-अविलीद्वैः = किञ्चिच्चर्वितैः, दौंः = कुशाङ्कुरैः, कीर्ण वर्म यस्यामौ = कीर्णवा = व्याप्तमार्गः, अयं = मृगः, पुनरिदानीमपि = एवमस्माभिरतरमनुसृतोऽपि, उदग्रं प्लतं यस्यासो तस्य भावः,-तस्मात्-उदग्रप्लुतत्वात् = उच्चतरोत्प्लवनवत्त्वात्, वियति = गगने, बहुतरं = बहुलं, प्रयाति = गच्छति / कूर्दनवशाद्गगने एव बहुकालं गच्छन् दृश्यते / स्तोकम् = अत्यल्पं तु, उौ = भूमौ / प्रयाति ] / अयं मृगो बहुकालपर्यन्तमस्माभिरनुसृतोऽपि, अत्यधिकोच्चोत्प्लवन शाली पूर्ववदेवाऽश्रान्त इवेक्ष्यते / इत्थञ्च प्लवनचपलोऽयं मृगः कथमस्माभिर्व्यापादनीयः / मनागपि नास्य वेगोऽल्लीभूत इति राजाशयः। अत्र श्लोके च मृगयुभिरनुसृतानां मृगाणां स्वभाव आख्यात इति स्वभावोक्तिरलङ्कारः / किञ्चैवमन्येऽप्यलङ्कारा अत्र यथायथमनुसन्धेयाः // 7 // हुआ, बाण लगने के भय से अपने पीछे के भाग (पीठ) को शरीर के पूर्व भाग (पेट एवं गर्दन ) की ओर समेटकर, आधे चबाये हुए कुशा के ग्रासों को, परिश्रम से खुले हुए अपने मुख से मार्ग में फेकता हुआ, ( यह हरिण) आकाश में छलांग मारता हुआ, दौड़ ही रहा है / पृथ्वी पर तो इसके पैर कभी 2 पड़ते हैं / यह तो आकाश में ही मानों उड़ता जा रहा है। अर्थात् इतना दौड़ने पर भी यह उसी वेग से चौकड़ी भर रहा है, और हाथ नहीं आता है // 7 // 1 उत्प्लवनं = कूदानं-'ऊँची कुदान' इति भाषा।