________________ . 264 . अभिज्ञानशाकुन्तलम् [चतुर्थोशिष्यो-इत इतो भवति ! (सर्वेपरिक्रामन्ति ) / .. कण्वः-भो भोः ! संनिहितवनदेवतास्तपोवनतरवः !पातुं न प्रथमं व्यवस्यति जलं युष्माम्वसिक्तेषु या, नाऽऽदत्ते प्रियमण्डनाऽपि भवतां स्नेहेन या पल्लवम् / आदौ वः कुसुमप्रवृत्तिसमये यस्या भवत्युत्सवः. सेयं याति शकुन्तला पतिगृहं, सर्वैरनुज्ञायताम् // 11 // भवति = हे श्रीमति ! इत इतः = अमुना पथा त्वमायाहि / परिकामन्ति = प्रचलन्ति / संनिहिता वनदेवता येषु ते-संनिहितवनदेवताः = वनदेवताधिष्ठिताः / पातुमिति / या-शकुन्तला / युष्मासु-असिक्तेषु = अलम्भितजलसेकेषु / जलमप्रापितेषु सत्सु / जलमपि = पानीयमपि / प्रथमम् = आदौ / पातुं = ग्रहोतुं / न व्यवस्यति = नेच्छति / या च स्नेहेन = प्रेम्णा / , प्रियाणि मण्डनानि यस्याः सा-प्रियमण्डनाऽपि = भूषणप्रियाऽपि सती / भवतां-पल्लवं = किसलयमपि / प्रेम्णा, दयया वा / नाऽऽदत्ते = न गृह्णाति / न त्रोटयति / किञ्च वः = युष्माकं / कुसुमानां प्रवृत्तिः = प्रारम्भस्तस्य समये = काले / आदौ = प्रथममेव, यस्या उत्सवः = आनन्दो, हर्षश्च भवति / सा इयं शकुन्तला सम्प्रति पतिगृहं = भर्तभवनं / याति = गच्छति / तत्-सर्वैः = भवद्भिः पादपैः / अनुज्ञायताम् = दोनों शिष्य-हे भगवति ! ( श्रीमती जी ! ) इधर से आओ, इधर से / [सब-चलते हैं / कण्व-वनदेवताओं से सदा विराजमान हे आश्रम के वृक्षों ! जो शकुन्तला-जलसे तुमारा सेचन किए बिना कभी जल भी .पहिले नहीं पीती थी और जो-पत्र पुष्पों के बने हुए आभूषणों की प्रिय (अनुरागिणीशौकीन) होती हुई भी, स्नेह से तुमारे कोमल पत्तों तक को नहीं तोड़ती थी, और जो तुमारे पहिले पहिल फूल आने के समय बहुत उत्सव एवं आनन्द