________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् (आकाशे -) रम्यान्तरः कमलिनीहरितैः सरोभि छायाद्रमैनियमिताऽर्कमरीचितापः / भूयात्कुशेशयरजोमृदुरेणुरस्याः शान्तानुकूलपवनश्च, शिवश्च पन्थाः // 12 // अनुमन्यतामियम् / [ समासोक्तिः / अनुप्रासाः / काव्यलिङ्गञ्च / शार्दूलविक्रीडितं वृत्तम् ] // 11 // आकाश इति / 'किं ब्रवीष्येव मित्यादि विना पात्रं ब्रवीति यत् / श्रुत्वेवाऽनुक्तमप्येकस्तत्स्यादाकाशभाषितम् // ' -इति धनिकोक्तरीत्या विनापात्रमुक्तिप्रत्युक्तिरूपेणेत्यर्थः / रम्यान्तर इति / अस्याः = शकुन्तलयाः। कमलिनीभिः हरितानि-तैःकमलिनीहरितैः = पद्मिनीषण्डहरितायमानैः। सरोभिः = सरोवरैः / रम्यमन्तरं यस्यासौ-रम्यान्तरः = हृद्यमध्यः। छायायुक्ता द्रुमाः-छायाद्रुमास्तैः-छायाद्रुमैः = शीतलच्छायामनोहरैः तरुभिः / नियमितोऽर्कमरीचीनां तापो यत्रासौ = अवरुद्ध दिवाकरकिरणसन्तापः। कुशेशयानां रज इव मृदुः रेणुर्यत्रासौ तथा = कमलपरागकोमलधूलिपटलः / अत एव शिवः-सुखदः, शान्तोऽनुकूलश्च पवनो यत्रासौ, तथा-मार्गः = पन्थाः। भूयादित्यर्थः / अत्र च पादत्रयगतानि विशेषणानि वायुपरतयाऽपि योजनीयानि / तथा हि वापयुक्षेपि हि-कमलसम्बन्धात् , छायाद्रुमसम्बन्धात्, कमलरेणुसम्पर्काच्च मनाती थी, वही शकुन्तला-आज अपने पति के गृह को जा रही है, आप लोग सब मिलकर इसे अनुमति ( आज्ञा, स्वीकृति ) दीजिए // 11 // . [आकाशवाणी होती है-] . 'इसका मार्ग बीच बीच में कमल की लताओं से हरे-भरे सरोवरों से युक्त, . मनको हरनेवाला, घनी छाया से युक्त वृक्षों से सूर्य की किरणों के सन्ताप से रहित, कमलों की रज (धूलि ) से मृदुल और शान्त तथा अनुकूल, मन्द-मन्द