________________ S:] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 21 सूतः-( राजानं, मृगं चावलोक्य-) आयुष्मन् ! यथाऽत्र-राजा-'भवतु तां द्रक्ष्यामि' इति राज्ञ औत्सुक्यं दर्शितम् / एवं 'शकुन्तला-कधं इमं जणं पेक्खि'--इत्यादिना शकुन्तलाया औत्सुक्यमप्युपनिबद्धम् / बीजलक्षणं तु नाट्यशास्त्रे 'अल्पमात्रं समुद्दिष्टं बहुधा यत्प्रसर्पति / फलावसानं यच्चैव 'बीज' तदभिधीयते / / ' इति / तचाऽत्र शकुन्तला-दुष्यन्तयोरनुरागात्मकं बीजं बोध्यम् / ततः = सूत्रधारनिर्गमनानन्तरं, रथमारूढो-रथारूढः = रथोपविष्टः, शरेण सहितः-सशरः-चापो हस्ते यस्यासौ सशर-चाप-हस्तः, = अधिज्यधन्वा / समारोपितबाणं धनुर्दधानः। मृगमनुसरन् = हरिणमनुगच्छन् , राजा = दुष्यन्तः, स्तः = सारथिश्च, प्रविशतीति-कविवाक्यमेतत् / ___अयं च दुष्यन्तो राजा धीरोदात्ती नायकोऽतोऽस्य, सूतस्य च संस्कृतमेव पाठ्यम् / तथा च भरत: 'धीरोद्धतेऽथ ललिते, धीरोदात्ते तथैव च। धीरप्रशान्ते च तथा, पाठ्यं योज्यञ्च संस्कृतम् ।।'-इति / तथा मातृगुप्ताचार्याश्च 'संमतानां देवतानां, राजन्याऽमात्यसैनिके / वणिङमागधसूतानां, पाठ्यं योज्यं तु संस्कृतम् ॥'-इत्याहुः / धीरोदात्तता चास्य दुष्यन्तस्य 'अविकत्थनः, क्षमावानतिगम्भीरो, महासत्त्वः / स्थेयान्निगूढमानो, धीरोदात्तो, दृढव्रतः कथितः // ' -इति दर्पणोक्तलक्षणसङ्गतेजेंया / आयुष्मन्निति / 'आयुष्मन्निति वाच्यस्तु रथी सूतेन सर्वदेति भरताक्तेरायुष्मन्निति राज्ञः संबोधनम् / आयुष्मन् ! = जैवातृक ! 'जैवातृकः स्यादायुष्मा'नित्यमरः / सूत-( राजा की ओर तथा मृग की ओर देखकर ) आयुष्मन् ! इस काले