________________ अभिज्ञान-शाकुन्तलम् [प्रथमो प्रधानस्य प्रबन्धस्य तदा प्रस्तावना मता // ' इति / "अर्थस्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते' / इति च / दशरूपकेऽपि 'सूत्रधारो नटी ब्रूते, माष वापि, विदूषकम् / स्वकार्य प्रस्तुताऽऽक्षेपि चित्रोक्त्या यत्तदामुखम् // प्रस्तावना' इति / प्रकृते च-सूत्रधारेण नटी प्रति प्रस्तुताक्षेपकं स्वकार्य प्रोक्तमिति प्रस्तावना स्पष्टैव / __ 'ततो वस्तु प्रपञ्चये'दित्युक्तेर्वस्तु = कथाभाग, प्रपञ्चयति-तत इति / वस्तुविन्यासप्रकारश्च दर्पण-दशरूपकयोर्यथा 'अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः / आरम्भ-यत्न-प्राप्त्याशा-नियताऽऽप्ति-फलागमाः / / बीज-बिन्दु-पताकाख्य-प्रकरी-कार्यलक्षणाः / अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः / / यथासङ्खथेन जायन्ते मुखाद्याः पञ्च सन्धयः / मुखं, प्रतिमुखं, गर्भः, सविमर्शोऽथ संहृतिः // ' इति / तत्र सन्धिसाम न्यलक्षणं दशरूपके .. 'अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति / ' इति / एकेन प्रयोजनेनान्वितानां कथांशानामवान्तरैकप्रयोजनसम्बन्धः-सन्धिरिति तदर्थः / प्रकृते च-'ततः प्रविशती'त्यारभ्य-'उभौ परिक्रम्योपविष्टौ' इत्येतद् द्वितीयाङ्का भागपर्यन्तं प्रथमो मुखसन्धिः / 'मुखं बीज-समुत्पत्तिर्नानार्थरससंश्रया। अङ्गानि द्वादशैतस्य 'बीजारम्भ'समन्वयात् / / उपक्षेपः, परिकरः, परिन्यासो, विलोभनम् / युक्तिः, प्राप्तिः, समाधानं, विधानं, परिभावना // उद्भेद-भेद-करणान्यन्वर्थानि'-॥ इति // तत्रारम्भरूपकार्यावस्थाया लक्षणं-भरतनाट्यशास्त्रे 'औत्सुक्यमात्रबन्धस्तु यो बीजस्य निबध्यते / महतः फलयोगस्य, स खल्वारम्भ इष्यते // ' इति /