________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 19 (ततः प्रविशति रथारूढ़ः, सशर चापहस्तो, मृगमनुसरन् राजा, सूतश्च)। तत्र 'उद्घातकः कथोद्धातः, प्रयोगातिशयस्तथा / प्रवन्तका-ऽवलगिते पञ्च प्रस्तावनाभिदाः // ' -इत्युक्तरवलगिताख्याऽत्र प्रस्तावना ज्ञेया / तदुक्तं 'यत्रैकत्र समावेशात्कार्यमन्यत् प्रसाध्यते / प्रयोगे खलु तज्ज्ञेयं नाम्नाऽवलगितं बुधैः // ' इति रसार्णवसुधाकरेऽपि 'द्विधाऽवलगितं प्रोक्तमर्थावलगनात्मकम् / अन्यप्रसङ्गादन्यस्य संसिद्धिः, प्रकृतस्य च / / ' इति / पनिकस्तु दशरूपके 'एषोऽयमित्युपक्षेपात्सूत्रधारप्रयोगतः / पात्रप्रवेशो यत्रैष प्रयोगातिशयो मतः / / " -यथा—'एष राजेव दुष्यन्तः' - इति'-इति वदन् प्रयोगातिशयाख्यामिमां प्रस्तावनां मनुते / निष्क्रान्ताविति / एषामन्यतमेनार्थ, पात्रं वाऽऽक्षिप्य सूत्रभृत् / प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रपञ्चयेत् // -इति दशरूपकोक्तो नटीसूत्रधारयोर्निर्गमाऽत्रोपनिबद्धः / प्रस्तावनालक्षणं च रसार्णवसुधाकरे 'विधेयथैव सङ्कल्पो मुखतां प्रतिपद्यते / साथ नटी या विदूषक आदि इधर-उधर की बातें करते हुए ही, जहाँ किसी प्रकृत विषय की सूचना दें, नाटक में वह 'प्रस्तावना' कहलाती है। [रथ पर चढ़े हुए, धनुषबाण चढ़ाए हुए, हरिण का पीछा करते हुए, राजा दुष्यन्त और सूत ( सारथि ) का प्रवेश ] / 1 'ततः प्रविशति मृगानुमारी, सशरचापहस्तो राजा, रथेन सूतश्च' / 2 समावेशः = सादृश्यानुसन्धानम् /