________________ ऽङ्कः] 15 अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 225 छायाश्चरन्ति बहुधा भयमादधानाः, सन्ध्याभ्रकूटकपिशाः पिशिताशनानाम् // 41 // राजा-( आकार्य, सावष्टम्भम्-) भो भोस्तपस्विनः ! मा भैष्ट, (मो भैष्ट ) / अयमहमागत एव / ( इति निष्क्रान्तः)। * इति तृतीयोऽङ्कः * सवनकर्मणि = यज्ञकर्मणि। सम्यक् प्रवृत्ते-प्रारब्धे सति / हुताशनवती = वैश्वानरवतीं / वेदि = यज्ञवेदिं / परितः= सर्वतः / प्रकीर्णाः = इतस्ततो विक्षिप्ताः / अत एव-बहुधा = नै कविधं / भयं = साध्वसम् / आदधानाः = कुर्वाणाः / पिशितमशनं येषान्तेषां-पिशिताशनानां = रक्षसां / सन्ध्यायामभ्राणि तेषां कूटवत् कपिशाः-सन्ध्याभ्रकूट कपिशाः = सन्ध्यामेघपुञ्जबद्धुम्रवणाः। 'श्यावःस्यात्करिशोधूम्र-धूम्रलौ कृष्णलोहिते' इत्यमरः / छायाः = प्रति बम्बानि | 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः / बहुधा = नैकविधं / सञ्चरन्ति = भ्रमन्ति / समा. यान्ति / 'बहुधे ति मध्यमणिन्यायादुभयत्राप्यन्वेति / [ श्रुतिच्छेकवृत्त्यनुप्रासाः, 'परितः प्रकीर्णा अत एव भयमादधाना' इति हेतुहे तुमद्भावात्काव्यलिङ्गं / 'सन्ध्याभ्रकूटकपिशा' इत्यत्र चोपमा / [ वसन्ततिलका वृत्तम् ] // 41 // . आकर्ण्य = श्रुत्वा / सावष्टम्भं = सधैर्य, सगर्व / मा भैष्ट = युष्माभिर्भयं न कार्यम् / अयं = पूर्वानुभूतः। अहं = महेन्द्रादीनामपि साहाय्यकारी महाराजो दुष्यन्तः / आगत एव = इष्टिरक्षायै द्रागेवागच्छामि / इति = इत्यभिधाय / निष्क्रान्तः = गतः / 'अन्तनिष्क्रान्तनिखिलपात्रोऽङ्कः' इत्युक्तेरङ्कान्ते पात्रनिर्गमस्यावश्यकत्वादिति शिवम् / इति तृतीयोऽङ्कः / वेदि के चारों ओर फैली हई, भय को देनेवाली, सायंकालिक मेघों की घटा की तरह काली पीली, मांस भोजी राक्षसों की ये छाया दीख पड़ रही हैं। अतः सावधान.! सावधान !! // 41 // राजा-(सुनकर बड़े गर्व, व धैर्य = तपाक, व धीरज के साथ ) हे तपस्वियों ! डरो मत, डरो मत, इष्टि ( यज्ञ ) की रक्षा के लिए मैं यह आया, आ पहुँचा / तुरंत आ रहा हूँ। (राजा जाता है)। तृतीय अङ्क समाप्त / - 1 कचिन्न