________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 207 मणिबन्धादलितमिदं सङ्क्रान्तोशीरपरिमलं तस्याः। हृदयस्य निगडमिव मे मृणालवलयं स्थितं पुरतः // 31 // (सबहुमानमादत्ते ) / शकुन्तला-(हस्तं विलोक्य-) अम्मो ! दोव्वल्लसिढिलदाए परिभट्ट एदं मिणालवलअं ण मए परिणादं / [(हस्तं विलोक्य-) अहो ! दौर्बल्यशिथिलतया परिभ्रष्टमेतन्मृणालवलयं न मया परिज्ञातम् ] / राजा--( मृणालवलयमुरसि निक्षिप्य-) अहो स्पर्शः!। मणिबन्धेति / तस्याः = शकुन्तलायाः। मणिबन्धात् = कलाचिकायाः / ('कलाई' इति भाषा)। गलितं = त्रस्तं / सङ्क्रान्तः-उशीरस्य परिमलो यस्मिंस्तत्-सक्रान्तोशीरपरिमलं = संसर्गमङक्रान्तनलदाऽऽमोदनिर्भरं / मे = मम / हृदयस्य = मनसः / निगडमिव = बन्धन कटकमिव / * गमनावरोधितया च निगडौपम्यम् / इदं मृणालवलयं = इदं. मृणालनिर्मितं प्रियाया हस्ताभरणं / मे पुरतः स्थितं = मदने वर्त्तते / मध्यमणिन्यायान्मेशब्दस्योभयत्रान्वयः / [ उत्प्रेक्षा / काव्यलिङ्गमपि केचित्समर्थयन्ते / 'आर्या' ] // 13 // सबहुमानं = सादरम् / 'अम्मो' ! इत्यव्ययं खेदे / दौर्बल्येन या शिथिलता, तयादौर्बल्यशिथिलतया = अस्वास्थ्यकृत कार्यशैथिल्येन / परिभ्रष्टं = गलितम् / उरसि = हृदये। निक्षिप्य = आधाय / अहो स्पर्शः ! = अहो अस्य सुखदः स्पर्श इत्यर्थः / कलाई पर से खिसक कर गिरा हुआ, खस की सुगन्धि से सुवासित, मेरी प्रिया का यह मृणालनिर्मित वलय ( कङ्कण ) मेरे हृदय के निगड ( हथकड़ीबेड़ी) की तरह सामने पड़ा हुआ है // 31 // (बड़े संमान पूर्वक उसे उठाता है)। शकुन्तला-अरी मैया री मैया! मेरी दुर्बलता से शिथिल होकर (खिसककर ) मेरा मृगालवलय गिर गया, पर मुझे पता भी न लगा!। राजा-( मृणालवलय को छाती पर रखकर ) अहा ! इस वलय का स्पर्श क्या ही शीतल व सुखप्रद है ?