________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 203 [पौरव ! रक्ष रक्ष विनयम् / इतस्तत ऋषयः सञ्चरन्ति / राजा--सुन्दरि ! अलं गुरुजनाद्भयेन / न ते विदितधर्मा तत्रभवान्कण्वः खेदमुपयास्यति / यतः गान्धर्वेण विवाहेन बह्वयोऽथ मुनिकन्यकाः / श्रयन्ते परिणीतास्ताः पितृभिश्वानुमोदिताः // 28 // शालीनतां / शिष्टतां / रक्ष = पालय / धाष्टय मा कुरु / इतस्ततः = सर्वतः / सञ्चरन्ति = पर्यटन्ति / तत्कथं न तेभ्यो लजसे। ... गुरुजनात् = कण्वादितः / भयेन = भीत्या। अलं = न प्रयोजनं / विदितो धर्मो येनासौ-विदितधर्मा = ज्ञातधर्मतत्त्वः / ( 'धर्मादनिच केवलात्' इत्यनिच् ) / तत्रभवान् = पूज्यः / कण्वः = त्वत्पिता काश्यपः / तें = तवोपरि / खेदं = क्रोधम् / नोपयास्यति = न समेष्यति / तदलं भीरु ! शङ्कया, अनुभव मया सह स्मरोपनतं रतिसुखमित्याशयः। अथ = कास्न्येन / बह्वथः = सहस्रशः। मुनिकन्यकाः = ऋषिकुमार्यः / गान्धर्वेण विवाहेन = 'इच्छयाऽन्योन्यसंयोगः कन्यायाश्च, वरस्य च / गान्धर्वः स तु विज्ञेयो, मैथुन्यः कामसम्भवः' इति मनूक्तलक्षणेन विवाहविधिना / परिणीता:- कृतोद्वाहाः। ताः = गान्धर्वविधिना कृतोद्वाहाश्च कन्यकाः / पितृभिः = गुरुजनैः / अनुमोदिताः = अभिनन्दिताः / श्रूयन्ते = पुराणादिषु गीयन्ते / अतो भयं विहाय विहर मया सह यथाकामं कामिनि !, सफलय च स्मरपीडितं मामात्मानञ्चेति भावः / / उपदिष्टं नाम नाटकलक्षणं सूचितमेतेन / तदुक्तम्'उपदिष्टं मनोहारि वाक्यं शास्त्रानुसारतः-' इति ] // 28 // मत छोड़ो / निर्लज मत बनो / यहाँ इधर-उधर ऋषि-मुनि घूम रहे हैं। हमें इस प्रकार कोई देख लेगा तो क्या कहेगा ? / राजा-हे सुन्दरि ! तुम अपने गुरु जनों का कुछ भी भय मत करो। तुमारे पिता कण्व तो धर्म ( गान्धर्व विधि से विवाह ) के तत्त्व को जानने वाले हैं, अतः वे तुमारे हमारे इस स्वेच्छाकृत विवाह सम्बन्ध से कभी अप्रसन्न व दुःखी नहीं होंगे। क्योंकि__बहुत सी मुनियों की कन्याएँ गान्धर्व विधि से ( स्वेच्छा से ) विवाहित हो चुकी हैं, और उनके पिताओं ने उन विवाह सम्बन्धों का अनुमोदन ही किया है॥२८॥